पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धमपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । उपादिशब्रह्म परं सनातनं न यत्र हस्ताडून्निविभागकल्पना ॥ अन्तर्बहिः संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५ ॥ सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।। न बुद्धिमारोहति तस्वमात्रं यदेकमस्थूलमनण्वगोत्रम् ॥ ३६ ॥ निशम्य मातुर्वचनं दयालु स्तुष्टाव भक्तया मुनिरष्टमूर्तिम् ॥ प्रस्थापयामास स च स्वदृतान् ॥ ३७ ॥ षयै न तु दाहादिसंस्कृत्यनविकारियत्यनुगां जनन्या सृतिं श्रुत्वाऽनन्तरं तम्यै पुखरूपमेकं परं ब्रहोपादिशदिति परेणान्वयः । तद्विशिनष्टि । मायेति । अत एव प्रत्यक्षादिप्रमाणातीतम् । तर्हि कथं भातीति चेत्तत्राऽऽह । स्वपभं स्च पकाशम् । अत् एवापमेयं फलव्याप्त्यभावात् ॥ ३४ ॥ ३५॥ [उपादिशदिति । अम्बग्माकाशम् । तथा चाऽऽस्रायते । 'आकाशवत्सर्वगतश्च नित्यः' इति ] ।। ३५ ।। एवमुपदिष्टा जनन्युवाच । हे सौम्य नगुण म चित्तं न रमतेऽतो रम्य सगुणं तु देवं त्वं वद । कुतो न रमत इति चेत्तत्राऽऽह यदेकं स्थूलत्वादिनिर्मुन्तं तत्त्वमात्र तदुद्धिंनाऽऽररोहति । यद्यस्मादिति वा || ३६ ।। एवं मातुर्वचनं निशम्य दयालुर्मुनिः श्रीशंकराचार्योऽष्टमृर्ति महादेवं 'भुजंगप्रयातं भवेचैश्चतुर्भिः’ इत्युक्तलक्षणैर्भुजंगप्रयाताख्यः पथैर्भक्तया तुष्टाव । तथाहि । अनाद्यन्तमाद्ययं परं तत्त्वमर्थ चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महः शैवमीडे ।। १ ।। स्वशक्तयादिशाक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नादिभूषम् । जटाचन्द्रगङ्गास्थिसंपर्कमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ २ ॥ शिवेशानतत्पृरुषाघोरवामादिभिर्बह्मभिर्हन्मुखैः षङ्गिरडैः । अनौपम्यषटत्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति का वा ॥ ३ ।। प्रवालपवाहप्रभाशोणमर्ध मरुत्वन्मणिश्रीमहःश्याममर्धम् । गुरु स्यूतमेकं वपुश्चैकमन्तः स्मरामि स्मरापात्तसंपत्तिहेतुम् ॥ ४ ॥ १ क न्मतदादि'। ४९३ २ क. 'या ज '।