पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीमच्छंकरदिग्विजयः । शान्तः पुमानिति न पीडनमस्य कार्य शान्तोऽपि पीडनवशान्कुधमुद्वहेत्सः । शीन: मुस्वोऽपि मथितः किल चन्दननु स्तीब्राहुनाशाजनको भवति क्षणेन ।। ५२ ।। यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ॥ विनिन्द्य कृत्यं किल भार्गवस्य ददुः स्वपुत्रान्कतिचिद्वकाय ॥ ५३ ॥ इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां यतिक्षितिपांतर्गतिं वितमसं स नीत्वा तत स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥ ५४ ॥ [ सर्गः १४ ] महत्प बद्धिपर्वमपराधो न कार्ये इति बोधितमथ शान्तोऽपि न पीडनीय इत्याह । शान्त: पुमानिति विश्रम्भेणास्य शान्तस्य पीडनं न कार्यम् । कुधं क्रोधवम् । तत्र दृष्टान्त: । शीत इति । चन्दनद्रश्चन्दनदुमस्तीव्रस्यैाऽऽसमन्तादुताशास्याग्रेर्ज नक: ।। ५२ || नन्वशास्त्रीयमेतत्कर्म किमित्याचार्येरनुष्ठितमित्याशङ्कयाऽऽह । यद्यप्यशास्त्रीयतया विभाति तथाऽपि तेजस्विनां कर्म निन्धं न भवति । तदुक्तम् । धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वः सर्वभुजो यथा ' । भार्गवस्य परशुरामस्य विनिन्द्य कृत्यं समातृकभ्रातृहननरूपम् । यथाच केविन्मु नया वृकाय पुत्रान्ददुः । भृगुवंश्यस्य कस्यचिन्मुनेः कृत्यं प्रार्थिताप्रदानरुपं विनिन्द्य ददृिित वा । उपजातिवृत्तम् ॥५३॥ [भार्गवस्य परशुरामस्य विनिन्द्यकृत्यमपि मातृवव लक्षणं गृह्ययं कमपि यथा तेजस्वित्वादनिन्द्य तद्वदित्यर्थः । यद्वा भार्गवस्य जमदग्रेः शापेन पुत्रत्रयहननरूपं विनिन्द्यकृत्यमप्यत्र तेजस्वित्वादनिन्द्य वि लति योजना । तद्विनि द्यत्वमेव व्यतिरकमुखेन प्रथयति ददुरित्यादिशेषेण । अत्र कतिचिदपि लोकाः स्वपु त्रान्वृकाय वृकवदकस्मादूक्षकाय मृत्यवे ददुः किमपि तु नैव ददुरिति संबन्धः । अनेन तु तदपि शापतः कृतमित्यस्य कर्मणस्तथात्वमित्याशयः ] ।। ५३ ।। इत्येवं मुनिजनैरपि प्रार्थितां पुन: पतनवर्जितामनल्पसैौख्यस्य संदोहिनीं तमोस् १ क. 'द्रम'। २ क. 'स्याऽऽहुता।