पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ तत्सहायजलजाङ्घ्रयुपागम च्छुरभीप्सितेऽत्र विललम्ब एपकः । जलजाङ्घ्ररप्यथ पुरा निजाज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥ ५५ ॥ आससाद शनकादश मुन र्यस्य जन्म व मुधाघटी स्मृता ॥ सा श्रुतिः सकलरोगनाशिनी योऽपिबज्जलधिमेकबिन्दुवत् ॥ ५६ ॥ अद्राक्षीत्सुभगाहभूषिततर्नु श्रीकालहस्तीश्वरं लिङ्गे संनिहितं दधानमनिशं चान्द्र कलां मस्तके ।। पार्वत्या करुणारसाद्वैमनसाऽऽश्लिष्टं प्रमोदास्पदं देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ।। ५७ ।। ४९९ हितां गतिं सोऽसँ यतिराजः स्वजननीं नीत्वा पृथ्वातले ततस्ततोऽन्यमतनिबर्हणे प्रयतं कृतवान् । पृथ्वी वृत्तम् ।। ५४ ॥ अथ तस्मिन्नन्यमतशातने सहायस्य पद्मपादस्योपागमनमिच्छुगभिलषिते तस्मिन्नेष श्रीशंकरो विलम्बं चक्रे । अथ जलजाड़घिरपि निजाज्ञया पृर्वे प्रथममुदीच्यबहुतीर्थ सेवनं कृतवान् । 'सजसा जगं भवति मत्रुभाषिणी' ॥ ५५ ॥ मुनेरगस्त्यस्य दिशं दक्षिणां वसुधवाघट। मृत्कुम्भ। यम्य सा प्रसिद्वा श्रुतिः श्रव णम् । सकलरोगनाशिनी । यच्छतिरिति वा पाठ: । यः समुद्रमेकबिन्दुवदपिबन् । रथोद्धता वृत्तम् ॥ ५६ ॥ [ यम्य मुनेर्जन्म । वसृधेति । मृकुम्भीत्यर्थः ] ।। ५६ ।। तस्य दिशि लिङ्गे संनिहितं श्रकालहस्ती'व' मुनिरद्राक्षीत् । त ििशनष्टि । सुभगेनाहिना भूषिता तनुर्यस्यानिशं चान्द्र कलां मस्तके दधानं करुणारपेनाऽऽद्रं मनो यस्यास्तया पार्वत्याऽऽलिङ्गिन्तं प्रमोदस्थानमिन्द्रयमुखैर्देवैर्जय जयेत्याभाष्यमा णम् । शार्दूलविक्रीडितं वृत्तम् ॥ ५७ ॥ [ करुणेति । ब्रह्मविद्यया मयाऽयं पर मात्मरूपः परशिवोऽनालिङ्गितश्चेतू 'शिवमद्वैतं चतुर्थं मन्यन्ते' इति श्रुतेरद्वैतचिन्मात्रा दस्मात्कथं मुमुक्षुणामविद्याविनिवृत्तिः स्यादिति दयावच्छिन्नरमशदितब्रह्मात्मैक्यान न्दस्निग्धचित्तयेत्यर्थः । मनि: श्रापद्मपादाचाये: ] || ५७ ।।