पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० श्रीमच्छकरदिग्विजयः । स्नात्वा सुवर्णमुस्खरीसलिलाशयेऽन्त र्गत्वा पुनः प्रणमति स्म शिवं भवान्या ॥ स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥ ५८ ॥ लव्ध्वाऽनुज्ञां तज्ज्ञराट्कालहस्ति क्षेत्रात्काञ्चीक्षेत्रमागात्पवित्रम् ।। वृद्धाः प्राहुर्यद्धि लोके ह्यमुष्मिन् ॥ ५९ ॥ तत्रैकांम्राधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या ॥ देवीं धामान्तर्गतामन्तकारे हर्द रुद्रस्येव जिज्ञासमानाम् ॥ ६० ॥ कैलुालेशं द्राक्ततो नातिदूरे लक्ष्मांकान्त सवसन्त पुराणम् । कारुण्याम्वान्तमन्तादिशून्यं दृष्टा देवं संतुतोषेकभक्तया ॥ ६१ ॥ सुवर्णमुखर्या नद्याः सलिलाशयेऽन्तः स्नात्वा पुनर्गत्वा भवान्या सहितं शिवं पण मति स्म । भावपुष्पैरर्चयित्वा मनसा स्तुतिं चकार । वसन्ततिलका वृत्तम् ॥ ५८ ॥ ॥ ५९ ॥ [ तज्ज्ञेति । ब्रह्मवित्सार्वभौमः श्रीपद्मपादाचार्य इत्यर्थः । यत्काञ्ची क्षेत्रम् । अमुष्मिन्निति । परलोके । संसारेति । मुमुक्षोर्मरणादिद्वारा । प्रसिद्धं साधनं वृद्धाः प्राहुरित्यध्याहृत्य योजना ] ॥ ५९ ॥ [सर्गः १४ ] स्वीयभाग्यातिशयेन प्राप्यं धामान्तर्गतामन्तकस्यार रुद्रस्य हार्द जिज्ञासमानामिव स्थितां देवीं च नत्वा ततो झटिति नातिदूरे संवसन्तं कैलालेशाख्यं लक्ष्मीकान्तं देवं दृझैकभक्त्या तुतोषेति परेणान्वयः । शालिनी वृत्तम् ॥ ६० ॥ [ तत्रैकात्रेश्वरं कामाक्षीं च प्रणम्य तन्निकटस्थं कलालग्रामनायकं लक्ष्मीकान्तमपि वीक्ष्यास्तौदित्याह । तत्रेत्यादियुग्मेन ] ॥ ६० ॥ स्वान्तं मनः । आद्यन्तरहितमाद्यन्तादिसर्वविकारशून्यम् ॥ ६१९ ॥ १ क. 'कान्त्याधा'। २ ग. कृष्णालेशं । ३ ग कृष्णालेशाख्यं ।