पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ब्रवीमि भूयः शृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।। संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात्विक भवतीति नोच्यते ॥ ४ ॥ विनाऽभिसंधिं कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः । तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५ ।। ससंरम्भश्लिष्यत्मुफणितिवधूटीकुचतटी पटीवत्पाटीरागारवनवपङ्काङ्कितहृदः ।। तथाऽप्येते पूता यतिपांतिपदाम्भोजभजन क्षणक्षीणकेशाः सदयहृदयाभाः सुकृतिनः ॥ ६ ॥ ५११ 'अन्नादेव खल्विमानि भूतानि जायन्ते' इति श्रुतेरवगम्यते ॥ ३ ॥ [गेहेति । गेहपति गृहस्थ एव दुमः कल्पद्रुमस्तदाश्रयमस्तीत्यर्थः ] ॥ ३ ॥ एवमुक्त्वा पुनः परमहितोपदेशाय ससाधनतामापादयति । ब्रवीमीति । युष्माकं गृहानागतमातुरमतिथिमादरेण पृजयतेत्यादरपदमत्राप्यनुष अजनीयम् । किमत इति चेत्त त्राऽऽह । संपूजितोऽतिथिर्वः कुलमुद्धरेत् । निराकृतात्तस्मात्कि भवतीति चेत्तदत्यन्तम निष्टत्वान्मया नोच्यते ॥ ४ ॥ किंच श्रुतिचोदितं नित्यादिकर्म फलाभिसंधिं विना कुरुत हे द्विजा जगतामधीश्व रस्तुष्येदिति प्रार्थनयाऽपि नो कुरुत तेन तथाभूनेन निष्कारणकर्मणा वोऽन्तःकरणस्य शुद्धिरचिरादेव भविष्यति ।। १०५ ॥ [ अभिसंधिं विना फलेच्छां विनैव ] ।। ५ ।। यदपि भवादृशा इत्याद्युक्तं तत्राप्याह । ससंरम्भं यथा भवति तथा लिप्यन्त्यो याः सुफाणिातिवधुटयः प्रियवादिन्यो वध्वस्तासां कुचतट्याः पटीवदाचरता पाटीरेण चन्दनमयेनाऽऽगरवेणागरुमयेन च नवेन पङ्केनाङ्कितमन्तर्बहिश्चान्तःकरणं येषां यद्यप्येवंभूता एते वयं तथाऽपि यतिपतेः श्रीशंकरस्य पदकमलयोर्भजनोत्सवेन क्षणाः छेशा येषां भजनक्षण इति वा । ‘कालविशेषोत्सवयोः क्षणः' इत्यमरः । शिखारणी वृत्तम् ॥ ६ ॥