पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० श्रीमच्छंकरदिग्विजयः । दृष्टा पद्माइधिं क्रमात्ते प्रणेमु स्तत्पादाम्भोजयरेणून्दधानाः ।। अन्योन्यं द्रागाददुस्ते ददुश्चा नेकानेहोयोगजैक्यान्नमांसि ।। ४४ ।। वाणीनिर्जितपन्नगेश्वरगुरुप्राचेतसा चेतसा बिभ्राणा चरणं मुनेर्विरचितव्यापछवं पछवम् ।। धुन्वन्तं प्रभया निवारितमाशङ्कापदं कामदं रेरजेऽन्तेवसतां समष्टिरभुत्दृत्तत्पाहतात्याहिता ॥ ४५ ॥ शुश्राव साऽन्तेवसतां समष्टि स्वदेशकीयां मुखदां मुवातम् । अर्थात्समीपागतत: कुतांश्च द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ ४६ ॥ शालिनी वृत्तम् ।। ४४ । [ दधाना मस्तके वारयन्त : पन्त इत्यर्थः ] ।। ४४ ।। [ सर्गः १४ ] वाण्या निर्जिता: शेषगुरुवाल्मीकयो यया पा चेतसा मुनेः श्रीशंकरस्य चरणं बिभ्राणा रेजे । चरणं विशिनष्टि । विरचितव्यं भवितव्यमापछवं पलववन्दुन्वन्तं प्रभया निवारिततमतिशयेन निवारितमाशङ्कानां पदमाश्रयभूतमज्ञानं येन पुनश्च कामदं पुरुषार्थचतुष्टयप्रदम् । शिष्याणां समटिं विशिनष्टि । अमुहृतां प्राणहृतां क्षुत्पिपासादीनां तत्या पङ्गया निमित्तभूतयाऽऽहितं स्वीकृतमत्याहितं जीवनापेक्षं कर्म यया सा अभमुहृदां कामादीनां बाह्यानां च पङ्कावाहितं स्थापितमत्याहितं महाभयं ययोति वा अत्यहितं महाभीतै जीवनापेक्षकर्मणि' इति मेदिनी । शार्दूलविक्रीडितम् ॥४५॥ [ अमुहृदिति । एतेन शमादिसंपत्ति भेदवादिविदलनशक्तिश्च सूचिता ] [ वरणमित्येकवचनं तु प्रागुक्तया शतोपरि त्रयो विंशतिश्लोके रामस्तदङ्कघिमित्यङ्धिशब्दैकवचनव्याख्यानरीत्या सर्वोत्तमत्वसूचकात्य न्तसाम्याभिपायमेवेति ज्ञेयम्] ।। ४५ ।। साऽन्तेवसतां समष्टिः कुतश्चिद्देशादर्थत्समीपमागतात्सेवितसर्वतीर्थाद्विजात्स्वदेश कीयां सुखदां सुवात शुश्राव । ताख्यानकी वृत्तम् ।। ४६ ।। १ क, ख. ध. सा । अत्याहितं महाभी' ।