पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ गरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्यविनेयाः ।। कथमपि विदिततदीयसुवात: समधिगताः किल केरलदेशान् ॥ ४७ ॥ अत्रान्तरे यांतिपति: प्रमुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः ॥ श्रीकेरलेषु मुनिरास्त चरन्विरक्तः ॥ ४८ ॥ विचरन्नथ केरलेषु विष्वडू निजांशिष्यागमनं निरीक्ष्य मौनी ॥ विनयेन महामुरालयेशं विनमन्नस्तुत निस्तुलानुभावः ॥ ४९ ॥ सदसत्त्वविमुक्तया प्रकृत्या चिदचिद्रपमिदं जगद्विचित्रम् । कुरुषे जगदीश लीलया त्वं परिपृर्णस्य न हि प्रयोजनेच्छा ॥ १५० ।। ५२१ अथानन्तरं गुरुवरं श्रीशंकरमनवेक्ष्यात्यन्तं व्यथितं त्दृद्येषां कथमपि विदिता भग वत्पादाः केरलेषु सन्तीति गुरुसंबन्धिनी सुवात यैस्ते मुनिवर्यशिप्याः केरलाख्यदे शान्संप्राप्ताः । 'नवमे भवति गुरावुपचित्रा' ।। । ४७ ।। आकाशलड़विनोऽत्यन्ततुङ्गाः श्रेष्ठाः केराख्यवृक्षा येषु तेषु केरलेषु मुनिश्चरन्नास्त स्थितः । वसन्ततिलका वृत्तम् ॥ ४८ ॥ [ प्रसुवः ‘जनयित्री मसूर्माता' इत्यमरात्पूर्वा श्रमजनन्या इत्यर्थः । अन्त्येति । अन्त्येष्टिमित्यर्थः । श्रीति । श्रीभाष्यकारचरण स्पशौच्छूीमन्तः शोभाशालिनस्ते च ते केरान्केरसंज्ञकान्वृक्षविशेषालॉन्त्याददते ते च ते तथा तेष्वित्यर्थः ] ॥ ४८ ॥ अथानन्तरं विष्वङ्सर्वगो निरुपमः प्रभावो यस्य श्रीशंकरः केरलेषु विचरन्सन्नि जशिष्यागमनं निरीक्ष्य मैनी तैर्भाषणमकुर्वाणो महासुराख्यसङ्गेशं श्रीविष्णु विनयेन नमस्कुर्वन्स्तुतिं कृतवान् । वसन्तमालिका वृत्तम् ॥ ४९ ॥ स्तुतिमुदाहरति । हे जगदीश सत्त्वासत्वाभ्यां विमुक्तयाऽनिर्वाच्या प्रकृत्या मायया जडचेतनात्मकमिदं विचित्रं जगलीलया त्वं कुरुषे । हि यस्मात्परिपूर्णत्वात्तव १ ग. घ. घु वस