५२८ श्रीमच्छंकरदिग्विजयः । [ सर्गः १४ मृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः ॥ भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥ ७४ ॥ पद्माङ्म्रो प्रतिपद्य नष्टविवृतिं तुष्ट पुनः केरल क्षमापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा । लब्ध्वा तस्य मुखात्स्वनाटकवराण्यानन्दपाथोनिधौ मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन्प्रतस्थे पुरीम् ॥ १५६२ ॥ इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ॥ संक्षेपशंकरजये सर्गेऽजनि चतुर्दशः ॥ १४ ॥ एवं राजशेखरेण विज्ञापितो देशिकः श्रीशशंकरो हे नृप कालटिनामकोऽग्रहारों येषां ते द्विजकर्मनधिकारिण इत्यद्येदानीं शप्ता भवताऽपि तथैव विधेया यतः पाप इति राजानमाशिषत् ॥ ७४ ॥ उपसंहरति । पद्मपादे नष्टविवृतिं प्रतिपद्य तुटे सति पुनः केरलभूपालो यतिसा वैभौमस्य सविधं समीपं प्राप्याञ्जसा झटिति प्रणम्य तस्य मुखात्स्वनाटकवराणि लब्ध्वाऽऽनन्दजलधौ मज्जंस्तस्य चरणकमलयुग्ममनिशं ध्यायन्पुरीं पतस्थे शार्दूलविक्रीडितं वृत्तम् ॥ १५६२ ॥ [ नष्ठति । नष्टा या विवृतिर्भाष्यटीका तामि त्यथे: । प्रतिपद्य प्राप्य ] | १७५ ॥ [ इति श्रीति । तदिति । तस्य पद्मपादस्य या तीर्थयात्रा तीर्थार्थ गमनं तदर्भ यदटनमितस्तत: परिभ्रमणं तदेवार्थो यस्य स तथेत्यर्थः ] ॥ १४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवं शावतंपरामकुमारसूनुवनपतिसृारकृते श्रीशंकराचार्यवि जयडिण्डिमे चतुर्दशः सर्गः ॥ १४ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/80/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A4%AF%E0%A4%83.djvu/page526-1024px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A4%AF%E0%A4%83.djvu.jpg)