पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० श्रीमच्छकरदिग्विजयः । [ सर्गः १५ ] कचित्पाठः । तथाहि । “तत्रस्था गुरुशेखरं यतिवरं मूर्धाऽभिवाद्योचिरे स्वामिन्नस्म दिदं मतं शृणु सितं चित्रं परं पावनम् ॥ आद्या शक्तिरशेषकार्यजननी शंभोर्गुणेभ्य परा यन्मायावशतो महत्पमुखरं सर्वं जगज्जायते ॥ १ ॥ तस्या वागाद्यगम्यत्वात्से वायोग्यत्वहेतुत : । तदंशाया भवान्यास्तु पादसेवापरा वयम् ॥ २ ॥ स्वर्णनिर्मित त्पादैर्बद्धग्रीवाः सुबाहवः । जीवन्मुक्तिर्यतो विद्योपासकानां फलं श्रुतम् ॥ ३ ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तत्र्वा विद्ययाऽमृतमश्रुते॥४॥ तस्मात्कटाक्षलेशेन मुक्तिदा या मुमुक्षुभिः ।। सेवनीया प्रयत्नेन प्रकृतिः सेशरू पिणी ॥ ५ । प्रकृतिश्चेश्वरश्चेति श्रुतितस्तदभिन्नता ॥ सदेवेत्यादिवाक्यानि तत्पराणि मतानि तु ।। ६ । अकारादेर्यथोत्पत्तिः प्रणवस्थस्य संमता । तच्छक्तीनां भवानी लक्ष्म्यादिकानां तथाऽस्ति सा ।। ७ || सिद्धान्तः सर्वदेवानां कारणस्य प्रभोः परा । चन्द्रस्य चन्द्रिकावद्या रुद्रोद्वोधकरुपिणी ।। ८ । स्वाधीनवलभेत्युक्ता शक्ती रुद्रस्य भो यते । सैवास्तीयं भवानीति निश्चयेन युता वयम् ।। ९ । नरव्याधैर्भवद्भिश्च कृत्वा तचिह्नवारणम् । सैवोपास्या सेतो माता मुक्तिदा परमेश्वरी ।। १० । इत्युक्त आचार्यवरो महेश: संप्राह तान्सत्यमिदं तथाऽपि ॥ श्रेष्ठस्यै बोधात्पुरुषस्य मुक्त संमोदितत्वात्सकलेऽपि शास्त्रे ॥ ११ ॥ आत्मानमात्मना ध्यात्वा मुक्तो भवति नान्यथा । तमेवेत्यादिवाक्यानि प्रमाणान्यत्र कोटिशः ।। १२ । अजामित्यादिमश्रेऽ जास्वरूपमाभिवाय वै' । ततस्तत्वं परेशस्य मुक्त्यर्थे संप्रकाशितम् ।। १३ । किंचापि सांख्यैः प्रकृतेः परस्य विकारहीनस्य सुबोधतः सा । उक्ताऽत ईशस्य सुखैकधाम्रो ज्ञानाद्विमुक्तिः परमस्य भूम्रः ॥ १४ ॥ ऐक्यं चोक्तं ब्रह्मणा ज्ञानेनो हि ब्रह्मज्ञो ब्रह्रैव नान्योऽस्ति कश्चित् । ब्रहोत्यादौ वेदवाक्येऽत एव ज्ञानं सम्यक्सावनीयं भवाद्भ दाशु चित्तशुद्धिर्विजायते ।। १६ । तस्मात्कुङ्कमपुण्ड्रादि परित्यज्य तथैव च ॥ हैम पादादिचिह्नानेि विद्यायां रतिमागताः ।। १७ । ब्रह्माहमितिरूपायां मुक्ता भवथ नान्यथा । एवमुक्तास्त्यक्तचिह्नाः सवं नत्वा परं गुरुम् ।। १८ । स्नानसंध्यापरः पञ्चपूजादिनिरतास्तथा ।। शुद्धाद्वैतकृतश्रद्धाः सच्छिष्यत्वमुपागताः ।। १९ । महा लक्ष्म्या भक्ताः परमपुरुषं शंकरमथो समेत्योचुर्नत्वा निखिलफलदा सर्वजननी ।। महालक्ष्मीराद्या प्रकृतिरसदित्यादिनिगमैः सदेवेतिश्रुत्योक्तपरपुरुषस्यामलतनोः॥२०॥ ब्रह्मादयोऽपि जायन्ते यस्या यस्यां परेशित: । अप्यन्तर्भाव एवास्ति सैव सेव्या १ क. 'म् ।। ९ ॥ निरवदैर्भ' । २ क. सर्वमा' । ३ घ. 'स्य ज्ञानात्पु' } ४ ग. घ. हि । ५ क. 'क्ये तदेव । ६ क. 'या प्रोक्ता सा द्वै' । ७ ग. घ. 'स्याः सुसे' । ८ ग. घ. 'रा नित्यं पू' । ९ क. 'श्रुत्या परमपु' । १० ग. यस्यां ।