पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अभिपूज्य स तत्र रामनाथं सह पाण्डेयैः स्ववशे विधाय चोलान् ॥ द्रविडांश्च ततो जगाम काञ्चीं नगरी हस्तिगिरेर्नितम्बकाञ्चीम् ॥ ४ ॥ एवं सेतुं प्रति प्रस्थितेन तत्र प्रस्थाने तुलाभवानीनिकटस्थानां पराजयं संक्षेपेण पदश्यै रामेश्वरप्रान्तदेशस्थानां तं संग्रहेण वर्णयितुमाह । अभिपूज्येति । रामेश्वरं वक्ष्यमाणप्रकारेणाभिपूज्य पाण्डैयैः सह चोलान्देशविशेषान्द्रविडांश्च वशे विधाय । ततो हस्तिसंज्ञकस्य पर्वतस्य कटिमेखलाभूतां काञ्ची नगरीं जगाम । इदमत्रावधेयम् । ‘रामे श्वरं रामकृतप्रतिष्ठं कामेश्धरीभूषितवामभागम् ! महेन्द्रनीलोज्ज्वलदुत्किरीटं भीमेश्वरं त्वामिह पूजयामि ॥१॥ इति गङ्गाजलैः शुद्धेरर्चयामास शंकरः। सुबिल्वैः पङ्कजैः पुष्पै वैन्यैवैन्यफलैस्तथा।॥२॥ तत्र मासद्वयं वासं कृतवत्यार्य आगताः ॥ औद्वैतद्रोहिणः शैवा लिङ्गाङ्कितभुजद्वयाः ॥३॥ फाले शूलाङ्किता रौद्रा भक्ता लिङ्गेन चिह्निताः ।। डमर्वङ्कधरा बाहुद्वये तूग्रास्तथा हृदि ॥४॥ शूलं शिरसि लिङ्ग च धारिणो जङ्गमास्तथा ॥ ललाटे हृदये नाभी बाह्वोः शूलेन चिह्निताः ॥५॥ गुरुं पाशुपता नत्वा प्रोचुः कारणमीश्वरः । शिवोऽतश्चिह्नसंयुः सेवनीयः प्रयत्नतः ॥ ६॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंग लम् ॥ उध्र्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ||७| द्यमृवनं यस्य वेदा वदन्ति खं वै नाभिं चन्द्रसुयै च नेत्रे । दिशः श्रोत्रे वाग्विवृत्ताश्च वेदास्तं मुमुक्षुर्व शरणमहं ५३३ ङ्कितात्मनाम् ॥९॥ किंच कारणविन्तायां शंभुराकाशमध्यगः । प्रोक्तस्तथा सुगे: पृष्ट कस्त्वमत्याह शकरः ||१०| अहमेकः पुरा दव। अास मत्त। न चापर । इदानीमहमे वास्मि सद्वयो जगदीश्वरः ॥११॥ इति तस्माच्छिवः कर्ता सामान्यैरप्युदीरितः ।। सद्र ह्मात्मादिकैः शब्दैरुपादानतया प्रभुः॥१२॥ वासुदेवः पुरा ह्यासीन्न ब्रह्मा न शच शंकरः॥ इत्यत्र वासुदेवाख्यो महादेव इतीरितः ॥१३॥ वसत्यस्मिञ्जगत्सर्वं वासुस्तेन प्रकीर्तित ॥ स चासौ देव इत्युक्तो जगत्कर्ता महेश्वरः ॥१४॥ शं सुखं जीवनं योऽसँीं करीत्यस्य सशंकरः । पालको विष्णुरारूयातः स नाऽऽसीत्प्राकृते लये ||१५| पाल्यस्याभावतोऽ स्त्यत्र प्रमाणं कृष्णभाषितम् । रुद्राणां शंकरश्चास्मीत्येवं शिवरहस्यके ॥१६॥ महादेवस्य वाक्यानि मुनिं दुर्वाससं मति। सावधानतया तानि श्रोतव्यानि यतश्विर ॥१७॥ अह मेकाक्षरः कर्ता परात्परतरः शिवः । सदात्मा ब्रह्मविष्ण्वोश्च लोकानामादिकारणम् ।।१८।। पुराणः पूर्वेगः पूर्वज्येष्ठः श्रेष्ठोऽहमद्वय । मदिच्छारूपिणी शक्तिर्जगत्संहारकारिणी ॥१९॥ लीना मय्येव सा सृष्टा पुनः सृष्टौ मयाऽनघ ।। सा महत्तत्त्वमुत्पाद्य त्रिगुणाङ्कु १ ग. घ. 'कप' । २ क. ग. लुप्ता ।