५३६ श्रीमच्छकरदिग्विजयः । [ सर्गः १५ ] पाश्रित्य परात्मविद्यां प्राप्तां गुरोरेव कृपाकटाक्षात् । अभेदवादामृतपानंतृप्तो भवति संश्रुत्य गुरोर्मुखाब्जात् ॥ १८ ॥ विद्वेषनीरनामा वै कश्चिलिङ्गभृदग्रणीः । उवाच परमप्रीतः स्वामिनं परमं गुरुम् ॥ १९ ॥ स्वामिंस्त्वमेव शरणं मम सर्वदाऽसि संसार सर्पविषदष्टतर्नु नयाऽऽशु । मामद्य युष्मदतिनिर्मलवेदवाक्यैर्नष्टा भिदाऽस्मि शिव एव जगत्पिताऽहम् ।। २० । महादेवस्य पूजापाः फलं त्वमसि सत्तम ॥ औद्वैता मृतदाता त्वं रुद्वादप्युत्तमोत्तमः ॥२१॥ इत्येवं स्तुतिपात्रं तं स्तुत्वा नत्वा मुहुर्मुहुः।। पीत्वा पादोदकं सम्यक्तदुक्ताचारतत्परः ॥ २२ । स्वकुलग्रामदेशस्थान्सर्वानद्वैतं वर्तिनः ॥ कृत्वा गुरं नमस्कृत्य सुखमास स शंकरम् ॥ २३ ॥ ततोऽन्ये भूतिरुद्रा क्षधारिणो लिङ्गचिन्हिताः । प्रोचुर्विपक्षशूलाद्या दृष्टा स्वामिनमदुतम् ।। २४ ।। मायावेषधरः कस्त्वं प्रामाणिकमतादमुम् । भ्रष्टं छत्वाऽधुना गन्तुं प्रवृत्तोऽस्यतिव ञ्चकः ।। २५ ॥ ब्राह्मण्यादुत्तमं प्रोक्तं वैष्णव्यं मुनिसत्तम ॥ वैष्णव्यादधिकं शैव्य मित्यजः प्राह नारदम् ॥ २६ ॥ तस्मादारूढपतनं किमर्थं भवता कृतम् । नमस्त इति वेदेन स्तुत: सम्यङ्कमहेश्वर २७ ॥ सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।। सर्वे व्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥ २८ ॥ इति धेताश्वतयाँ पुंसूक्तमुक्त्वो पसंहृतम ॥ ततस्तेनापि सर्वात्मा शिव एव निरुपितः ।। २९ । एत्न्यौ ते ह्रीश्च लश्मीश्च पाश्र्धेऽहोरात्रके मते ॥ इति वाक्यद्वयेनापि शिव एव निरुपितः ॥ ३० ॥ गङ्गा ह्रीः पार्वेती लक्ष्मीस्तत्पतिः शिाव ईरितः । स्कान्दे च यामले चैव तद्वाक्यानि मुने शृणु ॥ ३१ ॥ हिमायादपतन्मौलौ गङ्गा रुद्रस्य वेगतः । तदीयभारसंभ्रान्तो ह्यवादात्तां सदाशिवः ।। ३२ । व्रीमती भव नात्युचैर्वर्तसे प्राप्य मामिह ॥ पुरुषं पुरुषश्रेष्ठं ब्रह्मविष्ण्वादिकारणम् ॥ ३३ ॥ सा तं नत्वा महादेवं तदाप्रभृति भक्तितः । ह्निया तं याऽऽशु मिलिता हरिति प्रोच्यते बुधैः ॥ ३४ ॥ तस्याङ्कमधुनाऽऽरूढा शक्तिमहेश्वरी परा । महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ।। ३५ ॥ तस्या स्तेजःकणाज्जाता लक्ष्मीवाकोटयः पुरा ॥ शिवतेजः:समुद्धता हरिब्रह्मादिकोटयः ॥३६॥ क्रियन्ते पुनरेवैते तत्र तत्र लयानुगाः ।। इति तस्माच्छिवस्यैव तत्पतित्वं सुनिश्चि तम् ॥ ३७ । शुद्धस्फटिकसंकाशे दक्षिणे पार्धके मतम् । दिनत्वं रात्रिता वामे भागे देव्या मता यतः ॥ ३८ ॥ श्यामवर्णाऽपि चाथर्ववेदे सर्वात्मरूपताम् । नित्या नित्योऽहमित्यादिनाऽऽह स्वस्य सुराञ्शिवः ॥ ३९ ॥ जगत्कारणभूतस्य तथा शिव रहस्यके । ध्येयत्वादिकमाख्यातं शिवस्य परमात्मनः ।। ४० । ध्येयत्वे तव साक्षिणो मुनिगणा ज्ञान प्रदत्वे शुको वेद्यत्वे निगमाः स्वभ क्तविमतक्रान्तौ कृतान्तादयः। १ घ. 'नतो भ' । २ घ. 'मो मतः ।। २१ ५ ग. घ. "न्दे या' ! ६ ग. घ, मलके वै ' । ७ क. "dत्वं त" । निः ' ' '
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति