पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४२ श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] लीनस्य यः परः स महेश्वरः ॥ ६४ ॥ अष्टमूर्तिमहेशस्य मूर्तिरादित्य ईरितः ॥ तस्मात्तस्यैव शक्तिः सा पञ्चवक्त्रादिसंयुता ॥१६५॥ वैष्णवेन त्वयैवं नो शिवमूर्तिविं भावसुः । सेव्योऽतो ब्राह्मणत्वस्य हानिरेव तवाऽऽगता ॥ ६६ ॥ तदभावोऽस्तु का हानिवेंष्णवोऽस्मीति चेत्तदा । भ्रष्टोऽसि भाषणायोग्यो जीवन्नेव मृतोऽसि भी ॥ ६७ ॥ ततस्तु माधवः कश्चिद्वैष्णवः माह तं गुरुम् ॥ तैयं शङ्खादिकं धार्यं लोकं प्राप्तोति वैष्णवम् ॥ ६८ ॥ पाञ्चरात्रागमे प्रोक्तमित्येवं तस्य मानता ॥ त्वदुक्त्या नाशमायातीत्युक्तः प्राह परो गुरुः ॥ ६९ ॥ आगमाद्युक्त आचारो ग्राह्यो वेदानैकू लतः ॥ विरोधे तस्य न ग्राह्य उतं चेदं स्फुटं किल ॥ १७० ॥ अतीन्द्रियार्थविज्ञाने प्रमाणं श्रुतिरेव हि ॥ श्रुत्याचारमृतेऽग्राह्यताऽऽगमानां प्रसज्यते ॥ ७१ ॥ अती वेदविरुद्धं यत्तन्मानं न कदाचन ॥ अतो ब्राह्मण्यसिद्धयथै स्वकर्मनिरतो भव ॥ ७२॥ तेन सम्यग्विशुद्धः संस्तत्त्वज्ञानमवाप्स्यसि ॥ मुक्तिस्तस्मान्न चान्यस्मादत्रार्थे त्वं श्रुतिं शृणु ॥ ७३ ॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ॥ संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ७४ ॥ तस्मात्पाखण्डचिह्नानि विहायद्वैतनिष्ठता । संपाद्या मोक्षसिध्यर्थमित्युक्तः स च माधवः ॥ १७५॥ स्वकुलग्रामदेशस्यैः सहाद्वैतपरः सदा ॥ संध्यामिहोत्रमुख्यानि कुर्वन्कर्माणि शुद्धताम् ॥ ७६ ॥ पाप श्रीशंकराचार्यप्रसादा तत आगतः । वैखानसमताचारो व्यासदास इति श्रुतः ॥ ७७ ॥ उवाच भो यते ब्रह्माँऽपि मत्पक्षनिवारणे | न समर्थो यतो देवः परो नारायणो मम ॥ ७८ ॥ तद्वि cणोः परमं धामत्यादिवेदेन बोधिता । नारायणपदस्यैव श्रेष्ठता मनिसत्तम ।। ७९ ॥ तथा नारायणाद्रह्मा जायते रुद्र एव च ॥ इत्यादिश्रुतिभिस्तस्य कारणत्वमुदीरितम् ।। १८० । तस्मात्सेव्यः सदैवायमन्तर्यामी परेश्धरः ॥ लक्षणं तस्य भक्तस्य प्रोक्तं वैखानसे मते ॥ ८१ ॥ शङ्खचक्रपवित्राङ्ग ऊध्र्वपुण्ड् इति प्रभो ॥ इत्युक्तः पाह विष्णुस्तु पालको वाऽथ ब्रह्म वा ॥ ८५ ॥ अस्तु तत्र विवादः कः पदं त्वावृत्तिव र्जितम् ॥ लभ्यते तत्त्वबोधेन नैव त्वन्येन हेतुना ॥ ८३ ॥ यदि त्वं विष्णुभक्तोऽसि तदा तत्प्रीतये कुरु ॥ कर्म नैव तु तप्तानां चक्रादीनां विधवारणम् ॥ ८४ ॥ प्रमाणा भावतो वेदविरुद्धे नैव मानता ॥ आगमे विप्रतानाशो नो चेत्स्यादेव सर्वथा ।। १८५॥ इत्युक्त अाह तं व्यासदासः पूर्वयुगे मुने ॥ दत्तात्रेयः परो योगी पश्वमुद्राविमुद्रित ।। ८६ ॥ आसीत्तस्मान्महद्भिः स्वीकृतो माग मुमुक्षुभिः ॥ ग्राह्यः किच पुराणेषु चक्रादेर्धारणं श्रुतम् ॥ ८७ ॥ अन्यथा वैष्णवत्वस्य हानिरेव समापतेत् ॥ तस्माद्भ गवतश्चिह्न धार्यमित्युदितो गुरुः ॥ ८८ ॥ उवाच भो विवेकस्ते किमु वाच्योऽस्ति बालकाः ॥ अपि जानन्ति मुद्राभिरङ्कनेन प्रयोजनम् ॥ ९ ॥ दत्तात्रेयस्य नैवास्ति १ क. तप्तश'। २ घ. 'नुसारतः । ३ ग. घ. 'त्पाषण्ड '। ४ ग. घ.ह्माऽप्यस्मत्प।