[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । शिष्याणां षड्रसैर्युतम् ।। ७९ । भद्दाद्भोजनं नित्यं ब्रह्मार्पणमिति स्मरन् । सायं वने गुरुं शिष्यास्तमाचार्यशिरोमणिम् ॥२८०|| द्विषट्धा तं नमस्कृत्य ढकातालकरा शिवम् ॥ स्तुवन्तो नृत्यमाचक्रुः परेशं सचिदद्वयम् ॥ ८१ ॥ प्रपूर्ण ब्रह्माहं निखि लजनकं बुद्धिनिहितं चिदानन्दं सत्यं सकलजगदाधारममलम् ॥ अगम्यं वागाथै सुजितकरणैज्ञतमनधैः सुनिर्वाणं लब्ध्वा यदिह न पुनः संसृतिरयः ॥ ८२ ॥ जल्पन्त एवं बहुधा पुनृत्यं कुर्वन्त आचार्यसमीपसंस्थाः ॥ मीतिं गतास्तस्थुरुदारचित्ता हर्षेण युक्ता निखिला विनेयाः ॥ ८३ ॥ एवमानन्दसंतुष्टमाचार्य सेवकानपि ॥ तत्पट्टन द्विजाः प्रेक्ष्य किमेतदिति चाबुवन् ॥ ८४ ॥ न हि युष्मन्मतं सम्यगिव भाति हि पश्यताम् ॥ आकाशवन्निरालम्बमद्वयं ब्रह्मा केवलम् ॥२८५॥ मनोवागादिवृत्तीनामगों चरतर परम् ॥ कथमज्ञापबाधाय याग्य स्यान्मतमादृशम् ॥ ८६ ॥ तत्रत्यक्त्वाऽस्म मतं सम्यगाचरन्तु शुभाप्तये ॥ गाणपत्यमिति ख्यातं षङ्गिर्भदैः समन्वितम् ॥ ८७ ॥ समस्तवेदतात्पर्यस्तदेव हि समीरितम् ॥ तदाचरतमत्यन्तशान्तिदं मोक्षदं ऋणाम् ||८८॥ तुण्डैकदन्तचिह्नाभ्यां चिह्नितं शक्तिसंयुतम् ॥ महागणपतिं यस्तु सदा ध्यायत्यन न्यधीः ॥ ८९ ॥ तन्मूलमत्रपठनपरः सन्ब्राह्मणेोत्तम: । यो वर्तते स एवात्र मोक्षभा ग्भवति ध्रुवम् ॥ ९० ॥ ध्येयो वलुभया च चन्द्रकलयाऽऽश्लिष्टो ज्वलदूषया विश्धो त्पत्तिविपत्तिसंस्थितिकरोऽविन्नो विशिष्टार्थदः । इत्येवं गणनायकः खलु जगत्सृष्टया दिकर्तेरितो युक्तं चैतदजादिकस्य विलयेऽप्यस्मिन्स्थिते हीश्वरे ॥ ९१ ॥ आसीद्र णपतिस्त्वेक इति श्रुत्या प्रकीर्तितः ॥ ब्रह्मादिकगणेशोऽयं तस्मादखिलकारणम् ॥९२॥ तन्मायया विरचिता ब्रह्माद्या जगदीश्वराः ॥ इत्युक्त आह भो मूढ गजास्यः कारणं कथम् ॥ ९३ ॥ किंच रुद्रसुतत्वेन प्रसिद्धः कारणं पितुः ॥ कथं भवेदतो ब्रह्मा कारणं श्रुतिमानतः ॥ ९४ ॥ ब्रह्म वा इदमित्यादिवाक्यतस्त्वत्समीरितम् । वाक्यं ब्रह्मपरं नेयामित्युक्तो गिरिजापुतः ।२९५। उवाच पुनराचार्य सत्यमेतद्वचोऽस्तु ते। तथाऽ प्यङ्गेन शून्योऽयं पुमान्देवस्य संनिधौ ।। ९६ । गन्तुं योग्यः कथं भूयात्स्वष्टस्य यातपुङ्गव । इत्युक्तः श्रीमदाचार्यः प्राह मूढमते शृणु ।। ९७ । ब्राह्मणस्य कुले जन्म शिखादेश्च विधारणम् । वेदोक्तकर्मनिष्ठत्वं विप्रत्वं समुदाहृतम् ॥९८॥ एता वता भवेद्विपः कृतकृत्यस्ततोऽस्य तु ॥ पैखण्डमात्रमेवास्ति तत्तचिह्नस्य धारणम् ॥ ९९ ॥ वेदेन हि विरुद्धं यत्पुराणेषु च निन्दितम् । न तत्कार्य प्रवृत्तेन मोक्ष स्यार्थे विवेकिना ॥ ३०० ॥ किंच हेमनिभे चक्रे मूलाधारे चतुर्दले ॥ गणेशोऽस्ति तथा चक्रे स्वाधिष्ठानकसंज्ञके ॥ ३०१ ॥ षड्दले विदुमाकारे ब्रह्माऽस्ति मणिपृरके ॥ द्विपञ्चदलसंयुते नीलवर्णे स्थितो हरिः ॥ ३०२ ॥ द्विषङ्गिस्तु दलैर्युक्तऽनाहते १ ध. 'चार्य आह । २ ग. घ. पाषण्ड'। १५४७ ३ घ. तु ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति