पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण ॥ निजशिष्यनिरस्तदुष्टबुद्धीन्व्यदधाद्वैरवतन्त्रसावलम्बान् ॥ ७ ॥ अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुंधरामियामुम् । भगवन्बहुभिः कपालिजालैः स हि देशो भवतामगम्यरुपः ॥ ८ ॥ न हि ते भगवद्यशः सहन्ते निहितेष्यः श्रुतिषु ब्रवीम्यतोऽहम् ।। अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ ९ ॥ इतिवादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा । मयि तिष्ठति किं भयं परेभ्यस्तव भत्ते यतिनाथ पामरेभ्यः ॥ १० ॥ अथ तीर्थकराग्रणीः प्रतस्थे किल कापालिकजालकं विजेतुम् ॥ निशमय तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्रयः ॥ ११ ॥ पितृकाननभस्मनाऽनुलिप्तः करसंप्राप्तकरोटिरात्तशूलः ।। सहितो बहुभिः स्वतुल्यवैः स इति स्माऽऽह महामनाः सगर्वः ॥१२॥ भसितं धृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरःकपालमेतत् ।। वहथाश्रुचि खर्परं किमर्थ न कथंकारमुपास्यते कपाली ॥१३ ॥ क्रथैकैशिकेश्वरेण भक्तिपुर्वमभिगम्यास्यां विदर्भराजधान्यां कृतपृजः स भैरवतन्त्रेण सावलम्बानवलम्बसहितान्निजशिष्यैर्निरस्ता दुष्टबुद्धिर्येषां तथाभूतान्व्यदधात् ।। ७ ।। अथ कर्णाटभूमिं गन्तुमिच्छुमभिवाद्य विदर्भराडुक्तवान् । हे भगवन्स हि देशो बहुभिः कापालिकैर्भवतामगम्यरूपः ।। ८ ।। यतस्ते कापालिका भगवद्यशो न सहन्ते । यतश्च श्रुतिषु निहिता स्थापितेष्य यैस्ते यतश्च जगतामहिते समुत्सहन्ते सम्यगुत्साहयुक्ता भवन्ति । यतश्च महत्सु प्रतिपक्षतामुद्वहन्ते स्वीकुर्वन्त्यत एवमहं ब्रवीमि ॥ ९ ॥ इत्येवं विदर्भाधिपे वैदति सत्यधिज्यधन्वा सुधन्वा यतिराजं बभाषे हे यातनाथ मयि तव भक्त तिष्ठति पामरेभ्यः परेभ्यस्तव किमपि भयं नास्ति । १० । [ परेभ्यः शत्रुभ्यः ] ।। १ अथ शास्त्रकराग्रणीः कापालिकजालकं विजेतुं स उज्जयन्याख्यपुरं प्रतस्थे ||११॥ श्मशानभस्मना लिप्ताङ्गः करसंप्राप्तमनुष्यशिरःकपलः ॥ १२ ॥ यद्भस्म धृतमिदीदं तु युक्तं परं तु शुचि शिरःकपालमेतत्परित्यज्यापवित्रं मृन्मय खर्परं किमर्थं वहथ । कथंकारं कथं कपाली भैरवो भवद्भिनेपास्यते ॥ १३ ॥ १ क. घ. "थकेशि'। २ क. घ. 'थकेशि'। ३ घ. वादिनि । ४ घ. "पालं येन ।। १२ । य'।