पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ श्रीमच्छकरदिग्विजयः । नरशीर्षकुशेशयैरैलब्ध्वा रुधिरातैर्मधुना च भैरवाचम् ॥ उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुदं प्रयायात् ॥ १४ ॥ इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य ॥ निरवासयदात्मवित्समाजात्पुरुषैः स्वैरधिकारिभिः सुधन्वा ।। १५ ।। भृकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः ॥ भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति बुवन्नयासीत् ॥१६॥ रुषितानि कपालिनां कुलानि प्रलयाम्भोधरभीकरारवाणि । अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥ १७ ॥ अथ विप्रकुलं भयाकुलं तद्रतमालोक्य महारथः सुधन्वा । कुपितः कवची रथी निषङ्गां धनुरादाय ययौ शरान्विमुञ्चन् ॥ १८ ॥ अवनीभृति योधयत्यरीस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः । क्रकचेन वधाय भूभुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥ १९ ॥ अवलोक्य कपालिसंघमाराच्छमनानीकनिकाशमापतन्तम् । व्यथिताः प्रतिपेदिरे शरण्यं शरणं शंकरयोगिनं द्विजेन्द्राः ॥ २० ॥ १ [ सर्गः १५ ] नया कमलाक्ष्योमयाऽऽश्लिष्टवपुर्मुदं कथं प्रापुयात् ॥ १४ ॥ [ नरेति । नर इति शेषः ] ॥ १४ ॥ इत्येवं क्रकचे भैरवागमानां हृदयं जल्पति सति हे कुत्सितपुरुषेति तं विनिन्द्य स्वयैराविकारिभिः सुधन्वाऽऽत्मविदां समाजाद्वहिश्चकार ।। १५ ।। सितं परश्वधमुद्यम्य भवतां शिरांसि न विभिन्द्यां चेत्तर्हि क्रकचो नाहमिति बुवन्नयासीत् ।। १६ ।। प्रलयाम्भोधरवद्भयंकरः शब्दो येषाममुना क्रकचेन प्रेषितान्यप्रगणितानि कपा लिनां कुलानि कुपितानि समुद्यतायुधान्यभियातानि ।। १७ ।। अथ तेषामभिगमनानन्तरं तद्विपकुलं भयेन व्याकुलमालोक्य झटिति कुपित सुधन्वा धनुरादाय बाणान्विमुञ्चन्ययौ ।। १८ ।। त्वरया तानरीनेकत्र भूमिपे सुधन्वनि योधयति सत्यन्यतो ब्राह्मणानां वाय क्रकचेन नियुक्ताः सहस्रसंख्या उदायुधा द्रुतमासेदुराययुः ॥ १९ ॥ यतिसन्यसमीपमापतन्तं कपालिसंपं दूरादवलोक्य व्यथिता भूसुरेन्द्राः शरयं .. ध. 'रकृत्वा । २ ध. "मायान्तं ।