पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । असितोमरपट्टिशत्रिशूलैः मजिघांसून्भृशमुज्झिताट्टहासान् ।। यतिराट्स चकार भस्मसात्तान्नजहुंकारभुवाऽमिना क्षणेन ॥ २१ ॥ नृपतिश्च शरैः सुवर्णपुंखैर्विनिकृतैः प्रतिपक्षवक्त्रपमैः । रणरङ्गभुवं सहस्रसंधैः समलंकृत्य मुदाऽगमन्मुनंiन्द्रम् ॥ २२ ॥ तदनु क्रकचो हतान्स्वकीयानरुजांश्च द्विजपुंगवानुदीक्ष्य । अतिमात्रविदूयमानचेता यतिराजस्य समीपमाप भूयः ॥ २३ ॥ कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य । इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥ २४ ।। सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे । स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५॥ अथ मत्र्यशिरःकपालमाली ज्वलनज्वालजटाछटत्रिशूली ॥ विकटप्रकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥ २६ ॥ तव भक्तजनद्वहं दृशा संजहि देवेति कपालिना नियुक्तः ॥ कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्ट: ।। २७ ।। ५६३ शारणयोग्यं श्रीशंकरयोगिनं शरणं प्रपेदिरे ॥ २५० ॥ [ शमनेति । यमसैन्यसदृश मित्यर्थः ] ॥ २० ॥ निजहुंकारमसूतेन वह्निना ॥ २१ ॥ नृपतिश्च सुवर्णपुंखैः शरैर्विच्छिनैः प्रतिपक्षिणां मुखपत्रैः सहस्रसंधै रणभूमेिं सम लंकृत्य मुदा मुनीन्द्रमगमत् ।। २२ ॥ अतिमात्रमत्यन्तं विदूयमानं पीड्यमानं चित्तं यस्य स ।। २३ ।। अनस क्रकचो नेत्रे निमील्य क्षणमात्रं ध्यानं कृतवान् ।। २४ ।॥ [ कुमतेति । इति जल्पान्नित्यार्थिकम् ]॥ २४ ॥ भरवागमज्ञे ऋक्रकचे ध्यायाति सति सुरया मद्येन कपालं पांरंपूरत परिपूणमभव तस्याः सुराया अर्ध स क्रकचः सम्यक्पीत्वा तस्याः सुराया अर्ध निद्धार स्थापया मास च पुनर्भरवं स्मरति स्म ॥ २५ ॥ अथ भैरवस्वरूपस्मरणानन्तरं वह्निज्वालासदृशानां जटानां छटा समूहो यस्य स महाकपाली भैरवः ॥ २६ ॥ हे देव तव भक्तजनदुहं दृष्टया संजहीति कपालिना क्रकचेन नियुक्तो भैरवस्त १ क. 'मभूत्त' ।