पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । यतिनामृषभेण संस्तुतः सन्नयमन्तार्धमवाप देववर्यः । अखिलेऽपि खिले कुले खलानाममुमानर्चरलं द्विजाः प्रहृष्टाः ॥ २८ ॥ [ सर्गः १५] १ घ. तदा ॥ त्वविदो ममाऽऽत्मत्वान्मदवतारत्वाद्वा कथं ममाऽऽत्मनि श्रीशंकरेऽपराध्यसीति रुष्ट स्तस्यैव शिरो जहार ।॥ २७ ॥ खलानामखिलेऽपि कुले खिल उच्छिन्ने सति प्रहृष्टा द्विजा अमुं श्रीशंकरमा नर्चः । अत्रेदमवधेयम् ।। “संहारभैरवं नत्वा समासीनः किलाब्रवीत् ।। स्वामिन्वेदेषु शाखेषु पुराणेषु च कर्म यत् ॥ १ ॥ प्रतिपादितमस्तीह तत्कर्तव्यं हि धर्मतः ।। विप्राणां कर्मणा धर्मः साध्यः स्यादिति मे मतम् ॥ २॥ धर्मेण सर्वपापैौघो नाशं याति शुचिव्रतात् । पापसंघे तथा नष्टे मन:शुद्धिः प्रजायते ॥ ३ ॥ शुद्वे मनसि सर्वात्म साक्षात्कारो भवत्यलम् । एवं सदसि सर्वेषां ब्राह्मणानां मयेरितः ॥ ४ ॥ त्वद्भक्तः सहसाऽऽपादि दुष्टयुक्तिपरंपराम् । एतन्नोचितमित्युग्यो मच्छिष्यैस्ताडितः स तु ॥५॥ अकरोदागतं त्वां तु मत्रबीजपरायणम् । इतः परं त्वमेवैतत्सत्यासत्यं विवेचय ॥ ६ ॥ इत्युक्तो भैरवः प्राह विपदण्डार्थमागतः । शंकरस्त्वं सदा पूज्यः सर्ववेदपदार्थभाक् ॥७॥ भवत्कृतं हि यत्कर्म मयाऽपि च कृतं हि तत् ॥ तेषां कापालिकानां तु ब्राह्मण्या चारतां कुरु । ८ ॥ विकले तु कलौ प्रापे तेषां वृत्तिर्यथेप्सिता। बभूव मश्रबद्धोऽहं प्रत्यक्षोऽस्मि न धर्मतः ॥ ९ ॥ इत्युक्त्वाऽन्तर्दधे देवः कापालिकमतानुगाः ॥ तद्वा क्यश्रवणाद्भीताः परिव्राटकलशेखरम् ॥ १० ॥ नत्वा द्वादशधा सर्वे बटुकाद्याः सुवि स्मिताः । स्वामिन्मूढा वयं यस्मात्पालयास्मांश्च सादरम् ॥ ११ ॥ एवमालापिना दृष्टा करुणापूर्णविग्रहः ॥ आज्ञपयामास यतिः शिष्यांस्तेषां विशोधने ॥ १२ ॥ पद्मपादमुखाः शिष्याश्चकुस्तान्ब्राह्मणाध्वगान् । प्रातःस्नानरतान्नित्यं संध्याकमदृढ ब्रतान् ॥ १३ ॥ पश्चपूजापञ्चयज्ञपरान्निश्चलमानसान् । परं गुरुं समाश्रित्य तेऽपि सच्छिष्यतां गताः ।। १४ । तत्राऽऽगत्य ततः कश्चित्कपाली दारुणाकृतिः । प्राहेदं न्यूनता चेत्कापालिकानां मते तदा ॥ १५ ॥ फलं किमपि नान्यत्र विद्यते बटुका दयः । बभूवुः स्वमतभ्रष्टा यत्तु तत्रास्ति दूषणम् ॥ १६ ॥ महद्राह्मणजातत्व न में जात्या प्रयोजनम् ॥ किंचं देहस्य सर्वस्य भौतिकत्वान्न कस्यचित् ॥ १७ ॥ वतुं ि शक्यते जातिस्तस्मात्संकल्पिता त्वियम् ॥ जातिनतः प्रमाणं तत्कितु जातिद्वयं मतम् ॥ १८ ॥ स्त्रीजातिरेका नरजातिरन्या तत्रापि श्रेष्ठत्वमुपागताऽऽद्या । प्राक व्यमानन्द उपैति यस्याः संयोगतोऽतो न विचार इष्टः ॥ १९ ॥ गम्या हीयं नैव गम्येयमास्ति गच्छेन्नासावन्यभार्यामितीदम् ॥ वाक्यं नाङ्गीकुर्महे दोषभावाद्यस्मात्सवो २ घ . 'श्रयमा । ३ घ, 'पि तच्छिष्य'। ४ घ. किं वा दे'। ५ . ग. घ