पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ५५ स्वीयतामात्रजन्ति।॥ २० ॥ आनन्दार्थे चर्मणश्चर्मयोगं कुर्वञ्जीवः पापुयात्कं ह्यनर्थम् ॥ जीवस्यासँी मोक्ष एवास्ति तृप्तिः सर्वोत्कृष्टाऽऽनन्दतो दर्शिताऽतः ॥२१॥ आनन्दो यो व्यक्तिमायाति सङ्गात्तदूपोऽसौ भैरवो देहपाते। तस्य प्राप्तिर्मोक्ष इत्येव तत्त्वमित्युक्त श्रीशंकराचार्य आह ।। २२ । उक्तं भोः कापालिकेदं सुसम्यक्सत्यं वाच्यं कस्य पुत्री त्वदीया। मातेत्युक्तः पाह कापालिकोऽसौ स्वामिन्माता दीक्षितस्यास्ति पुत्री ॥२३॥ दीक्षितत्वमिदमागतं कुतस्तत्पितुः स तु जगाद भो यते ॥ तालमुख्य तरुगां सुराम सावाहरन्ननु रसे विशेषतः ॥ २४ ॥ ज्ञानवानपि न च स्वयं स तां पातुमिच्छति परं तु विक्रये ॥ शीलवानत इमं सदा जनो दीक्षितं वदति तस्य पुत्रिका ॥ २५ ॥ मातृतामुपगता ममाऽऽत्मदहापणन पुखसागर जनान् ॥ आगतान्खलु नरान्सदाऽ करोत्संपुतान्सुमुखलब्धये यते ॥ २६ ॥ उन्मत्तभैरवसमाख्यमिमं विबोध तस्याः सुतं मम पिताऽपि सुपरराकरऽभूत् । तत्संनिधौ स्थितिमपीह सुरा लभन्ते नो मद्यगन्ध विमुखा हि पलायितास्ते ॥ २७ ॥ तस्मादेवं सत्कुलेहं प्रसृतः सम्यक्पूज्योऽहं भवद्भिः सुभक्त्या ॥ इत्युक्तोऽसौ पाह कापालिक त्वं गच्छैतस्मात्स्वेच्छया संच राऽऽशु ॥ २८ ॥ ब्राह्मणान्ननु सुदुष्टमतस्थानेव दण्डयितुमत्र समागाम् ॥ नेतरानत इतोऽयमभाष्यो दूर अभाशु करणीय इतात्थम् ॥ २९ ॥ मोदिता यतिवरेण तदा ह्याऽऽश्रवाः सुवचनं शिरसा ते ॥ मात्यजन्खलममुं सुविदूरं शंकरं तु तत एत्य स दृष्ट्रा ॥ ३० ॥ चार्वाक इत्थं ह्यकरोद्विचारं मूर्खर्जनैव्र्याप्तमिदं समस्तम् ।। देहाद्यती तात्मविबोविभिस्तत्सङ्गाद्रता मूढतमत्वमन्य ।। ३१ । दुष्टा मतिन भविताऽपि तस्मात्तथाऽपि तेषामयमग्रचारी । संन्यासवानस्ति तु कश्चिदेष विवेकयुक्तो यदि चेत्तदग्रे ॥ ३२ ॥ स्थास्यामि नो चेदहमेमि शीघ्रमेवं विचार्यास्य सभां प्रविश्य ॥ उवाच तत्त्वं विदितं तवास्ति तदा विमुक्तेर्वद लक्षणं त्वम् ॥ ३३ ॥ आदैौ विवेको मम बुध्यतामयं कायात्मदेहस्य तदादिरूपिणः ॥ जीवस्य मोक्षो विलयो न चेतरस्त । स्याऽऽगमं मूढवियो बुवन्ति भोः ॥ ३४ ॥ लयं गतानां सरितां समुद्रे यद्यागम स्यान्मरणं गतानाम् ॥ स स्यादतो मोक्ष इयं मृतिहिं श्राद्धादिकं कर्म तु कुर्वते ये ॥ ३५ ॥ तृप्तिस्त्वनेनेति मृतिं गतानां तेषां विवेकः किमु वाचनीयः ॥ किंच प्रजल्पन्ति परोस्ति लोक स्वर्गस्तथाऽन्यो नरकोऽतिघोरः ॥ ३६ ॥ पुण्येन पापेन च यान्ति तत्र क्षयात्तयोर्मत्र्यमिमं विशन्ति । तेषां मतं तत्सुतराममानं यतस्त्विदैवास्त्युभयानु भूतिः ॥ ३७ ॥ स्वर्ग भोक्ता कथ्यतेऽसौ सुखस्य यो वा भुङ्के छेशमेष द्वितीयः ॥ तस्माद्युक्ता कल्पना नो परोक्षा प्रत्यक्षेणैवानुभूतिं गताऽस्ति ॥ ३८ ॥ देहेन्द्रियेषु भूतेषु नटेषु परलोकगः ॥ को वा जीवस्य भेदेऽपि घटाकाशवदस्य तु ॥ ३९ ॥