पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ॥ ६ ॥ किंचैकादशरुद्राणामियं स्तुतिरुदाहृता ॥ तदंशानां कथं सा स्यादेकस्य बहुता तथा ॥ ७ ॥ यस्य स्पृष्टया मृदा स्नानं विप्राणां परिकीर्तितम् ॥ तस्य वेषा दिचिह्नस्य धारणं बहुदोषदम् ॥ ८ ॥ एवं वंशप्रवृत्या हि श्धवेषादिविधारणम् ।। नित्यादिकर्मसंत्यागत्रिकालं नाट्यसक्तता ॥ ९ । चरितं भवतां सर्वे ब्राह्मण्यस्य विघातकम् ॥ तस्मान्निरीक्षणेनापि मुखस्य भवतां किल ॥ ११० ॥ सूर्यावलोकनं शास्त्रे चोदितं मौनमेव तु ।। कर्तव्यमिति संपोक्ता न्यपतन्गुरुसंनिधौ ॥ ११ ॥ कृत्तमूला यथा वृक्षा राज्ञो मूलेऽपराधिनः तानवक्ष्य दयायुक्तस्तिष्ठतमिति सोऽब्रवीत् ॥ १२॥ अथाऽऽज्ञया गुरोः शिष्याः पद्मपादमुखाः खलु । तच्छिरोमुण्डनं नद्यामयुतरुनान मेव च ॥ १३ ॥ मृदाऽथ मृण्डनं भूयः शतरुनानं मृदा तथा ॥ योग्यं च कारयित्वाऽ न्यत्प्रायश्चित्तमतन्द्रिताः ॥ १४ ॥ ब्राह्मण्यमार्गगांश्चकुस्तांस्तेऽपि तु परं गुरुम् ।। नत्वा सच्छिष्यतां यौताः शौचस्नानादितत्परा ॥ ११५ ॥ पञ्चपूजारता जाता शास्राध्ययनसंरताः ॥ श्रीशंकरपसादेन मुक्तिभाजनतां गताः ॥ १६ ॥ तस्मात्पुरात्प श्चिममार्गगामी मरुन्धसंज्ञ पुरमाप शिष्यैः ॥ ढकादिवाद्यानुचलत्करौधैर्विचित्रबन्धा दिबहुपपधैः ॥ १७ ॥ तत्र पुयाँ विचित्रं वै विष्वक्सेनस्य गोपुरम् । तत्पृर्वतः प्रपा शालां विपुलां तत्र कल्पनाम् ॥ १८ । गृहादीनामसौ कृत्वा सम्यग्दर्भासनस्थितः ॥ मनोन्मन्यभिधाङ्गष्ठमात्रलक्ष्यं परं प्रभुम् ॥१९॥ संपूर्णमण्डलाकारमात्मानं संनिरीक्ष्य सः ॥ पीयूषबिन्दुसंदोहपानतृप्ताङ्गएव हि ।। १२० । कुण्डलिनीं पुनर्मूलाधारं नीत्वा तदी श्धरम् । स्तुत्वा गणपतिं तत्र चिरमास सुखं गुरुः ॥ २१ । तत्रत्याः स्वामिनं नत्वा विष्वक्सेनपरायणाः । शाङ्कचक्रविराजदुजदण्डास्तोत्रपाणयः ।। २२ । ऊचुरस्मन्मत सुष्ठु विष्वक्सेनाधिदैवतम्। पुण्यदं स तु वैकुण्ठे सेनापतिरुदाहृतः ॥२३॥ तस्य भक्ता वयं नास्ति भयं नो यमराजतः ।। देहपाताद्वैटैस्तस्य चोदितेन यथा किल ॥ २४ ॥ वैकुण्ठ एव गन्तव्य इत्युक्तः माह तान्गुरुः ॥ मैवं नारायणस्यैष विष्वक्सेनः प्रकीर्तित ॥१२५॥भक्तस्तथैवेशभक्ता वैकुण्ठे सन्त्यनेकशः॥तद्भक्ता अपि संपूज्यास्तद्भरित्यनुज्ञया ॥ २६ ॥ कथं तेषामुपास्यत्वं स्वातक्रयेण भवेत्किल ॥ प्रमाणाभावतस्तस्मात्सगुणत्वात्स एव हि ॥ २७ ॥ तलोकपेप्सुभिः सेव्यः पारंपर्येण मुक्तिदः । नारायणस्तमेकं तु ध्यातुः प्रत्यगभेदतः ॥ २८ ॥ मुक्तिः साक्षादतो यूयं यदि चेन्मुक्तिकाङ्क्षणः । तदाऽद्वयमखण्डं तं गुरुशास्त्रोपदेशतः ॥ २९ ॥ ध्यात्वा सम्यक्प्रयत्नेन मुक्ता भवथ मा चिरम् ॥ इत्युक्तास्त्यक्तलिङ्गास्ते प्रणम्य शिरसा गुरुम् ॥ १३० ॥ तदादेशेन संप्राप्य विद्यां स्मृत्यादिदर्शिताम् । कर्मादौ सुग्ताः सर्वे बभूवुः साधुवृत्तयः ॥२१॥ ततः समागत्य तु मन्मथस्य भक्ता नमस्कृत्य गुरुं समूचुः । शृण्वस्मदीयं मतमदुतं ५५९ १ घ. 'वदीयं तु ब्रा'। २ घ. प्राप्ताः