पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० श्रीमच्छकरदिग्विजयः । [ सर्गः १५] त्वं यो मन्मथः सर्वहृदि स्थितः सः ॥ ३२॥ सर्गादिकर्ताऽत उपासनीयः सर्वार्थिभिः सर्वनुतः परात्मा ॥ सुवर्तुलाकारविभूषणाभ्यां वशीकृतं येन दृदि स्थिताभ्याम् ॥३३॥ कान्ताकदम्बेन तदीयदर्शनमस्पर्शनाभ्यां बहुसौख्यदाभ्याम् ॥ कामात्मनः पूर्णसुखस्य लब्धिर्मोक्षोऽस्यतो यूयमपीह तस्य ॥ ३४ ॥ समुत्सवे पञ्चशारस्य चिह्न धृत्वा ह्यन तेन सुखेन युक्ताः ॥ तैणेन मुक्ता भवथेति सोक्तः प्रोवाच मैवं वदताप्रमाणम् ॥ १३५ ॥ कमलजप्रमुखा जगतः स्मृता उदयपालनसंयमने रताः ॥ न च हरेः सुत एष हि पालको न च सुते सवितुर्हि तथा मभा ॥ ३६ ॥ स्त्रीणां तत्स ङ्गिनां सङ्गं दूरतः परिवर्जयेत् ॥ इत्येवं प्रतिषेधस्य सत्वादुष्टं भवन्मतम् ॥ ३७ ॥ किंचानङ्गस्य मोक्षादिदातृत्वे शाक्ततां कुतः ॥ पद्युम्रस्य च कर्तृत्वं सृष्टयादेर्न विरो धतः ॥ ३८ ॥ पत्यक्षादेरिति श्रुत्वा नत्वा क्रौञ्चविदादयः ॥ त्यक्तचिह्ना बभूवुस्ते पश्चपूजादितत्पराः ॥ ३९ ॥ तस्मादुदक्पथायातं पुरं मागधमदुतम् ॥ कुबेरोपासका स्तत्र कुबेरप्रमुखाः स्थिताः ॥ १४० ॥ नवनिध्यात्मसौवर्णपदकावलिशोभिताः ॥ ऊचु नैवनिधीशत्वात्सर्वाधिकधनः किल ॥ ४१ ॥ कुबेरस्तस्य भक्तानामस्माकं न दरिद्रता। ततो नः पूर्ण आनन्दो बह्मरूपोऽस्ति भो यते ॥ ४२ ॥ कर्मणोऽप्यर्थमूलत्वात्तत्पतेः सेवनं वरम् ॥ मोक्षाद्याकाड़क्षिभिः सर्वेः कर्तव्यं सुपयत्नत ॥ ४३ ॥ किंच ब्रह्मा दिकानां स धनदानेन पालकः | तस्मात्समग्रलोकानां स्वाम्ययं सेव्यतां गतः ||४४|| तस्य सेवाकरी काचिद्यक्षिणी सुरसुन्दरी। महदैश्वर्यलाभस्तत्सेवनादपि जायते ॥१४५॥ तस्मात्तदन्यसेवां ये कुर्वन्ति मनुजादयः ॥ मोक्षाद्याकाङ्क्षणस्ते तु मन्दा भाग्यविव र्जिताः ॥ ४६ ॥ तस्माद्भवन्तोऽपि कुबेरसेवां कुर्वन्तु मोक्षार्थमनन्यचित्ताः ॥ इत्युक्त आचार्य उवाच युष्मन्मतं प्रमाणेन विहीनमेव ॥४७॥ स्वामी कुबेरोऽस्तु परो धनस्य तथाऽपि कश्चिन्न हि तेन तृप्तः ॥ लोभेन युक्तस्य कुतोऽस्ति तृप्तिरतोऽस्य धमऽपि न विद्यतेऽणुः ॥ ४८ ॥ मोक्षस्य वार्ता त्वातिदूरगाऽस्ति तस्मात्परित्याज्यमनर्थरूपम् ॥ द्रव्यं प्रयत्नेन मुमुक्षुभिःस्तत्सेव्यं न यस्यास्ति पुनर्वियोगः ।। ४९ । अथेमनर्थे भावय नित्यं नास्ति यत: सुखलेश: सत्यम् । पुत्रादपि धनभाजां भीतिः सवेत एषा विहिता नीतिः ।। १५० । इत्युत्केर्ननु धर्मोऽपि तत्साध्य इति चेत्तथा ॥ अस्तु नाम कुबेरस्तु सेव्यो नैव धनार्थिना ।। ५१ । यतः प्राक्सुकृतादेव धनभाजेो जना मताः ।। बह्मा हिरण्यगर्भाऽस्ति विप्णुर्लक्ष्मीपतिईरः ।। ५२ । हिरण्यवीर्य इन्द्रस्तु सुवणाच लसंस्थितः । एवंविधा धनेनास्य जीवन्तीत्यतिसाहसम् ।। ५३ । महन्निन्दार्थक वाक्यं नैव वाच्यमितः परम् । चिह्नानि संपरित्यज्य स्नानसंध्यादितत्पराः ।। ५४ ।। अद्वैतविद्यया युक्ताः पञ्चपूजारताः सदा । भवतेत्युदिताः सर्व गुरुपादाम्बुजे रताः