पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ ८ श्रीमच्छदकरदिग्विजयः । मूलाज्ञानं प्रपद्यते ॥ ७९ ॥ तस्मिन्नटे यमः सर्वमिति बोधो विजायते । ततः शुष्क यमस्याऽऽप्तिरूपो मोक्षो भवत्यतः ॥१८०॥ यूयं मोक्षार्थिनः सर्वे कुरुतानन्यचेतसः ॥ तदीयोपासनं तस्य मुक्ति प्राप्स्यथ बोधतः ॥८१॥ इत्युक्त आचाथै उवाच मैवं वाच्यं विरुद्धं श्रुतितो भवाद्भः ॥ पुरा पितुः शापवशाद्धि कश्चिद्विजः पुरं प्राप्य यमस्य गेहम् ॥ ८२॥ स नाचिकेता अवसत्रिरात्रमत्रं विना तं ह्यतिथिं सुकान्त्या ॥ युक्तं यमः प्रेक्ष्य सुवेपमानः प्रोवाच भूदेवमतीव नम्रः ॥ ८३ ॥ तिस्रो रात्रीर्यदवात्सीद्वैहे मेऽनश्रन्बह्मन्न तिथिर्नमस्यः ॥ नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ८४ ॥ इत्येवं तु यमेनासौ नमः पूर्वमुदीरितः॥ नचिकेता उवाचैनं वचनं सुमनोहरम् ॥१८५॥ शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युगौतमो माऽभि मृत्यो । त्वत्प्रसृष्टं माऽभि वदे त्प्रतीत एतत्रयाणां प्रथमं वरं वृणे।। ८६ ॥ यम उवाच। यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः॥ सुखं रात्रीः शथिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखा त्प्रमुक्तम्॥८७॥ स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीत्वऽशानायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ ८८ ॥ नचिकेता उवाच ।। स त्वमामेिं स्वग्र्यमध्येषि मृत्यो प्रबूहि त्वं श्रद्दधानाय मह्यम् ॥ स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ॥ ८९ ॥ एवमुक्त उवाचामेः स्वरूपं यम आदरात् ॥ नचिकेतास्ततः प्राह मृत्युं बुद्धिमतां वरः ॥ १९० ॥ येयं प्रेते विचिकित्सा मनुष्येऽ स्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽदं वराणामेष वरस्तृतीयः ॥ ९१ ॥ एवमुक्तो यमस्तस्य लोभमुत्पादयन्बहु ॥ धनादिना वरस्यास्य गोप्यताम भिलक्ष्य सः ॥ ९२ ॥ अथैनं लोभनिर्मुक्तं विद्यार्थिनमकल्मषम् ॥ दृष्टा पाह यम स्तत्त्वं सुगोप्यमधिकारिणे ॥ ९३ ॥ सर्वे वेदा यत्पद्मामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरान्ति तत्त पदं संग्रहेण ब्रवीम्योभित्येतत् ॥९४॥ अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ९५ ॥ यस्य ब्रह्मा च क्षत्रं च उभे भवत ओदनः । मृत्युर्थस्योपसेचनं क इत्था वेद यत्र सः ॥ ९६ ॥ इत्यादिनोपदिष्टः स कृतार्थो गृहमागमत् ।। इति श्रुतां यम नैव मृत्युह्मोपसेचनम् ॥ ९७ ॥ प्रोक्तं न च स्वयं स्वस्य भक्ष्यं भवितुमर्हति ॥ तत। यमात्परं ब्रह्मा कारणं सर्ववस्तुनः || ९८ ॥ ब्रह्मविष्ण्वादिरूपेण सेवनीयं प्रयत्नतः । उपसेचनलिङ्गानां धारणेन विमुक्तता ॥ ९९ ॥ इत्युक्तिरवबोधान्नो भवतां साहसा त्मिका । मार्कण्डेये श्रण प्रोक्तं पुराणे भक्तवत्सलः ॥ २०० ॥ महादेवो यमं निष्पाज्य भक्तपरिपालनम् ॥ अकरोत्किच पापात्मा सुन्दराख्यो बभूव ह ॥ १ ॥ कृतं जागरणं तेन धनलोभात्कदाचन ॥ शिवरात्रौ ततो दूतैर्यमस्याऽऽकृष्यतां गते ।। २ ।। ८४ [ सर्गः १५ ] १ क. 'तीयकः ॥ ९१ ॥ ए ।