पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ५६३ जीवेऽस्य तत आगत्य शिवदूतैः सुताडिताः ॥ परित्यज्य गता याम्याः शिवलोकं स सुन्दरः ॥ ३ ॥ नीतः शैवैर्हि भक्तानामग्रगण्यो बभूव ह ॥ अजामिलोऽपि कर्माणि ब्राह्मणानां विहाय तु ।। ४ । नीचस्त्रीसङ्गतः पुत्रान्पञ्च प्राप्य कनिष्ठिकम् ॥ नारा यणं बुवन्प्राणास्त्यजन्याम्यैः पपीडितः ॥ २०५ ॥ विष्णुदूतैस्तदाऽऽगत्य रक्षितस्ते तु किंकराः ॥ यमस्य भयसंकल्पास्तन्मन्दिरमथो ययुः ॥ ६ ॥ तस्माचूयं परित्यज्य चिह्नान्यद्वैतत्पराः । वैदिकं कर्म कुर्वन्तः शुद्धास्तेन ततः परम् ॥ ७ ॥ गुरूपदेशतो ज्ञानं लब्ध्वा शान्ति गमिष्यथ ॥ इत्युक्तास्तं प्रणम्याशु बभूवुस्ते तथैव हि ॥ ८ ॥ तस्मात्पाप प्रयागाख्यं स्थलं पुण्यविवर्धनम् ॥ गङ्गाया यमुनायाश्च सरस्वत्याश्च संगमम् ॥ ९ ॥ तत्र स्थिते गुरौ पाशचिह्ना वरुणसेवकाः ।। समागतास्तथा वायूपासका ध्वजचिह्निताः ॥ २१० । भूमिदेवस्य सेवायां रताः पूर्णाङ्कधारिणः ॥ तीर्थस्योपासका बिन्दुचिह्नाश्चैव समागताः ॥ ११ ॥ तत्राऽऽद्यानां गुरुः प्राह गुरुं तीर्थपतिस्तदा ।। श्रोतव्यं मन्मतं चित्रं पुण्यदं यातिशेखर ॥ १२ ॥ सर्वोत्तमेो जीवनहेतुरस्य देवादि वन्द्यो वरुणः सुसेव्यः । तं पाणनाथस्त्ववदत्सर्भरः सर्वस्य हि प्राण उपासनीय ॥ १३ ॥ मुनिं ततोऽनन्त उवाच चैनं सर्वोत्तमा भूमिरुपासनीया । नत्वा ततो जीवनदो जगाद तीर्थे सुसेव्यं सकलः सुखाशैः ॥ १४ ॥ तच त्रिवेणीति पथामुपेतं पापापहं यस्य हि विन्दुमात्रम् । केचित्तु तद्दर्शनतो विमुक्ति वदन्ति सर्वोत्तमता ततोऽस्य ॥२१५ ॥ अम्ब त्वद्दर्शनान्मुक्तिर्न जाने स्नानजं फलम् ॥ नारदेनोक्तमेतद्धि किंच सर्वात्मकं जलम् ॥ १६ ॥ आपो वै स्युरिदं सर्वमित्यादिश्रुतिवाक्यतः । तस्मात्सर्वात्मकत्वेन ब्रह्मत्वऽस्यैतदेव हि ॥ १७ ॥ मोक्षार्थिभिर्भवद्भिस्तु सेवनीयं प्रयत्नतः ॥ इत्येवमुक्त भाद्देदं शंकरः परमो गुरुः ॥ १८ ॥ उपासना सुखजननी न कार्यगा ह्यनित्यताऽङ्ग सकलकार्यगा मता । जलस्य सर्वपरमता तु योदिता श्रुतौ तु सा क्षितिमुखराद्यपेक्षया ॥ १९ ॥ मुक्तिरतो युष्माकमलभ्या नास्ति विमोक्षेऽनित्य सुसेवा ॥ साधनमात्मज्ञानमतः संसाध्यमलं मोहं परिहाय ॥ २२० । विश्धसुखाति क्रान्तममेयं प्राप्य विमुक्ता आभवथाद्धा । ते श्रुतवन्त: श्रीगुरुशिष्यास्त्यक्तनिजाङ्का संमति जाताः ॥ २१ ॥ शून्यवादी ततो नत्वा गुरुं प्रोवाच शंकरम् ॥ किंचिदृष्टं मया मार्गे सावधानमनाः श्रुणु ।। २२ । मृगतृष्णाम्भासि खपुष्पकृतशेखरः ॥ रुनातः सुखं वन्ध्यासुतो याति शाश्रुङ्गधनुर्धरः ॥ २३ ॥ तं दृष्टा देवभावेन प्रणम्य शिरसा भृशम् ॥ भागतोऽस्मि यतिश्रेष्ठ तवान्तिकमहं द्रुतम् ॥ २४ ॥ इत्युक्त आह भी विद्वत्तर त्वन्नाम किं स्मृतम् ।। स तु प्रेोवाच भो स्वाभिन्निरालम्बनसंज्ञकः ।। २२५ ॥ अहं पिता मदीयस्तै कृप्तनामेति विश्रुतः ॥ मन्मतस्य प्रवक्तति श्रुत्वा पाह परो १ घ. 'मिदैवतसे' । २ ग. ‘स्तु कल्पिताख्योऽति ।