[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ७१ ॥ २५० ॥ भवद्भिरपि ते सेव्या इत्युक्तः प्राह तान्गुरुः ॥ जन्योपासनमत्यन्तमयुक्तं मोक्षसिद्धये ॥ ५१ ॥ इत्युक्ताः कुमतिं त्यक्त्वा शुद्धाद्वैतपरायणाः । तथैव शिष्यतां यातास्ततः कश्चित्समागतः ॥ ५२ ॥ सांख्यः प्रधानवादी तं नत्वोवाच परं गुरुम् ॥ उपादानं प्रधानं तु कारणं जगतः स्मृतम् ॥ ५३ ॥ स्मृतिः प्रमाणमस्माकं मन्वादि स्मृतिवद्यते । गुणसाम्यं प्रधानं स्यान्महत्तत्त्वादिकारणम् ॥ ५४ ॥ भव्यक्तं व्यक्त भावं च जगत्येकं परात्परम् ॥ तदुपासनमात्रेण मुक्ति: संनिहिता वृणाम् ॥ २५ ॥ इत्यादि स्मर्यते तस्मात्स्चीकर्तव्यमिदं मतम् ॥ इत्युक्त आह भोः सांख्य मैवं वेदवि रोधतः ॥ ५६ ॥ स्मृतेर्वेदानुकृलायाः प्रामाण्यं हि न चान्यथा । अशब्दत्वात्प्रधानं तु जगतः कारणं न हि ॥ ५७ ॥ वेदोक्तस्थेक्षितृत्वस्याभावादस्य जडस्य वै ॥ नाश ब्दमीक्षतेरित्यत आाचार्येरुदीरितम् ॥ ५८ ॥ तस्मात्स ऐक्षतेत्यादिश्रुतिवाक्यान्न कार णम् ॥ पधानं किंतु चैतन्यं परं ब्रह्मा सदात्मकम् ॥ ५९ ॥ अतो मूढमतिं त्यक्त्वाऽ द्वैतनिष्ठो भवाधुना ॥ इत्युक्तः प्राह नाशब्दं प्रधानं श्रुतिरस्ति हि ॥ २६० ॥ आधि न्त्यमव्यक्तमरूपमव्ययं तथाऽरसं नित्यमगन्धवच यत् । अनाद्यनन्तं महत: पर धुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ ६१ ॥ इत्यव्यत्तेन शब्देन प्रवानं प्रतिपादि तम् ॥ इति श्रुत्वा गुरुः प्राह प्राज्ञः प्रकरणादिना ॥ ६२ ॥ उक्तशब्देन संप्रोक्त किंच ज्ञानं न संभवेत् । गुणसाम्यसुसेवात: सत्वस्योद्रेकरूपकम् ॥ ६३ । तस्मा तन्मतं त्यक्त्वाऽद्वैतविद्यां समाश्रितः ॥ सुखीभवेति संप्रोक्तः सांख्योऽसे शिष्यतां गतः ॥ ६४ ॥ ततोऽन्यस्तं नमस्कृत्य कापिलो योगवित्तमः । प्राह पामाणिकं योगा न्मुक्तिरस्तीति मे मतम् ॥२६५ ॥ विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरः शरीरः ॥ अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।॥६६॥ हृत्पु ण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशादं विशोकम् ॥ अचिन्त्यमव्यक्तमनन्तरू। शिवं पशान्तं अमृतं ब्रह्मयोनिम् ॥ ६७ ॥ अनादमस्यान्तविहीनमेकं विभु चिदान द्मरूपमदुतम् ॥ उमासहायं परमेश्धरं प्रभु त्रिलोचनं नीलकण्ठं पशान्तम् ॥ ६८॥ ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षि तमसः परस्तात् ॥ इत्यादिवाक्यैर्नगमेषु संस्थैः प्रमाणतां याति मतं मदीयम् ॥ ६९ ॥ किंचाऽऽगमेषु संपत्क्ता जपविद्या विधानत: । भेदनं चक्रषट्कस्य तथा प्रोक्तमतो मतम् ॥ २७० ॥ मुक्तयाकाङ्क्षभि राचार्थ सेवनीयं प्रयत्नतः । इत्युक्त अनाह मैवं भो वेदहरसंज्ञिका ॥ ७१ ॥ वेिद्योक्ता न त्वदुक्तोऽयं योगो मोक्षस्य कारणम् ॥ ७२ ॥ अजपामूलमत्रस्य सोऽह मित्यर्थनिश्चयात् । जीवेशयोर्भिदागन्धाभावाद्योगः कथं भवेत् ॥ ७३ ॥ सर्वभूतस्थ मात्मानं सर्वभूतानि चाऽऽत्मनि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ ७४ ।। ५६५ १ घ. 'क्तिनि:नृ' । २ ध. "परत्र । शया
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति