[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सर्वस्याजनकत्वतः ॥ ९६ ॥ अधीत्य गौतमीं विद्यां सांगलीं योनिमाविशेत् ॥ इत्या दिवचनात्तां तु विहायाद्वैतमाश्रिताः ॥ ९७ ॥ मुक्ता भवथ शुद्धात्मविज्ञानादुरुभक्ति जात् ॥ इत्युक्तास्ते बभूवुर्वे शिष्या वीराशवादयः ॥ ९८ । प्रातः स्नात्वा त्रिविण्यां हि गुरुः शिष्यसमन्वितः । प्राङ्मार्गात्प्राप्य पक्षाधत्काशीं काशीशसंयुताम्।। ९९ ॥ स्तुतिभिः करतालैश्च शङ्कादिनिनदेस्तथा ॥ चित्रमासीत्तत्र मासत्रितयं संस्थिते गुरौ ।। ॥ ३०० ॥ स्वामिनं केचिदागत्य नत्वा तं कर्मवादिनः ॥ प्रोचुर्विश्धस्य सृष्टयादि कर्मणो भवति प्रभो ॥ १ ॥ रम्येण कर्मणा रम्यां योनिं विप्रादिकस्य वै । पापेन कर्मणा पापां शूद्रादेस्तां व्रजन्ति हि ॥ २ ॥ कर्मणैव हि संसिद्धिमास्थिता जनका दयः ॥ इत्यादिकैर्वचोभिर्मुमुक्षुभिः कर्म यत्नतः ॥ ३ ॥ कार्ये सुखस्य संप्राप्तिमेक्ष इत्यभिधीयते ॥ इत्युक्तः पाह मैवं यस्यैतत्कर्मेति हि श्रुतिः ॥ ४ ॥ ब्रह्मकार्य जग दूते ध्येयं तत्कारणं तथा ॥ इत्युपक्रम्य संबूते शंभुराकाशमध्यगः ॥३०५॥ऋउतं च सत्यमित्यादिश्रुतिश्चास्ति विबोधिका ॥ ब्रह्मणः सूक्ष्मस्थूलादिविश्वकारणरूपिणः ॥६॥ तस्मात्सर्वज्ञ एवेशः कारणं जगतो मतः । नैव कर्म जडत्वाद्ये मन्दास्तेऽथाऽऽश्रयन्ति तत् ॥ ७ ॥ इत्युक्तास्ते परां विद्यामाश्रिताः शिष्यतां गताः ॥ ततो वाभरणाख्यस्तं शिष्यैः सह समागतः ॥ ८ ॥ नत्योवाच स चन्द्रोऽसौ सर्वलोकप्रकाशकः ।। देवा दिपालकः पूर्णिमादौ पूज्यः प्रयत्नतः ॥ ९ ॥ तदुपासनया मुक्तिरित्युक्तः प्राह नास्ति सः । अनित्योपासनालभ्यो नित्यो मोक्षः कदाचन ॥ ३१० । इष्टापूतोदिकं कर्म कृत्वा चन्द्रस्य मण्डलम् । प्राप्य भूयोऽस्य लोकस्य प्राप्तिरुक्ता परात्मना॥११॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राप्य निव तंते ॥ १२ ॥ एष देवान्नमित्युक्तं श्रुतैौ तस्मान्न मुक्तता। अन्नस्यास्य सुसेवातः किं तु तलोकसंस्थितिः ॥ १३ ॥ तस्मान्मूढमतिं त्यक्त्वा शुद्धाद्वैतं समाश्रितः ॥ मुक्तो भवेति संप्रोक्तः सच्छिष्याऽौ बभूव ह ॥ १४ ॥ ततो भौमादिकानां थे ग्रहाणां समुपासकाः ॥ नमस्कृत्योचुराचार्ये ३शंकरं ते' कृपानिधिम् ॥ ३१५ ॥ भैमादिकस्य सेवातो मुक्तिर्वेदे प्रचोदिता । तस्मान्मुमुक्षुभिः सेव्या एत एव प्रयत्नतः ॥ १६ ॥ इत्युक्त अाह लोकानां ग्रहपीडानिवृत्तये ॥ सेवा प्रोक्ता न मुक्त्यर्थं सा तु चेतन बाधतः ।। १७ । सदेवेत्यादिभिर्वाक्यैर्वेदे सम्यगुदीरिता ॥ इति श्रुत्वाऽथ ते सर्वे गताः ॥ १८ ॥ ततः क्षपणको नत्वा गुरुमाह प्रभो मया । त्वदा ॥३शष्यत्वमादरात् श्रयेण षण्मासः कालो नीतस्ततो मतम् ॥ १९ ॥ मदीयं शृणु कालोऽयं परं ब्रह्म सुपेव्यताम् ॥ मुक्त्यर्थमिति संप्रोक्तः प्राह कालस्य जन्म हि ।। ३२० । संवत्सरोऽजा यत काल एष इति श्रुतिः प्राह ततः कुबुद्धिम् । विहाय शुद्धाद्वयमाश्रितस्त्वं मुक्तो ५६७ १ घ. शागलीं । २ घ. ते । ३ ग. तं ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति