पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । १५७१ अधिगत्य महर्षिसंनिकर्ष कविरातिष्ठिपदात्मपक्षमेषः ।। शुकतातकृतात्मशास्रतः प्राकपिलाचार्य इवाऽऽत्मशास्रवमद्धा ॥ ३९ ॥ भगवन्क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ॥ इति देशिकपुंगवं निवार्य व्यवदत्तेन मुरेश्वरः सुधीशः ॥ ४० ॥ सुमते तव कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ॥ इति तं विनिवत्र्य नीलकण्ठो यांतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ ४१॥ परपक्षबिसावलीमरालैर्वचनैस्तस्य मतं चखण्ड दण्डी ।। अथ नीलगल: स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरुचे ॥ ४२ ॥ प्रशमिंस्तदसीति यस्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ॥ अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३ ॥ महर्षेः श्रीशंकराचार्यस्य संनिकर्ष समीपं प्राप्यैष कविनीलकण्ठ आत्मपक्षमाति ष्ठिपत्सम्यक्स्थापितवान् । तत्रापमानमाह । शुकस्य वातेन श्रीवेदव्यासेन कृतादा त्मप्रतिपादकाच्छास्त्राच्छारीरकमीमांसासंज्ञकात्प्राग्यथा कपिलाचार्यः साक्षात्स्वशास्त्रं स्थापितवांस्तद्वत् ॥ ३९ ॥ तदानीं स्वगुरुं निवार्य सुरेश्वरो विवादं कृतवानित्याह । हे भगवन्क्षणमात्रं पथमं तु मे तत्स्फुरदुक्तिपाटवमीक्ष्यतामिति देशिकपुंगवं निवार्य सुधीनामीशः सुरेश्वरस्तेन नीलकण्ठेन व्यवदत् ॥ ४० ॥ विवदमानं सुरेश्वरं प्रति नीलकण्ठो यदुक्तवांस्तदाह । ह सुमत तव कुशलता विजानेऽतः स्वयमेवैष मुनिः मातब्रवींविति तं सुरेश्वरं विनिवत्र्य तदा यतिसिंहसै मुख अभासीत् ॥ ४१ ॥ ततः परपक्षलक्षणविसावलीभक्षणे हंसैर्वचनैस्तस्य सम्यक्स्थापितं मतं दण्डी श्रीशंकरश्चखण्ड खण्डितवान् । अथानन्तरं नीलकण्ठः स्वपक्षरक्षां त्यजन्नद्वैतमतं निराकर्तुमिच्छुरुवाच ॥ ४२ ॥ यदूचे तदाह षाङ्गः । हे प्रशमिंस्तत्त्वमस्यादिवेदत्रयीमस्तकैर्जीवेश्धराभेदलक्षणो यस्त्वादिष्टोऽर्थः कथितः स न यज्यते किं तमःप्रकाशयोरभेदो घटते नैव युज्यते । तत्र हेतुर्विरुद्धधर्मवत्त्वात् । तथाच जीवेश्वराभेदो न भवति विरुद्धधर्मवत्वात्तमःप्रका शयोरिवेति युक्तिविरोधात्वदिष्टोऽर्थो वेदान्तैनैव कथित इति भावः ॥ ४३ ॥