५७२
। [ सर्गः १५] रवितत्प्रतिबिम्बयोरिवाभिद्धटतामिस्यपि तत्त्वतो न वाच्यम् । मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेव्यमशिवादिदेशिकोक्तया ॥४४॥ मुकुरस्थमुखस्य बिम्बवक्त्राद्रिदया पाश्र्वगलोकलोकनेन ॥ प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५ ॥ न च मायिकजीवनिष्ठमाढ्येश्वरसार्वज्ञविरुद्धधर्मबाधात् ॥ उभयोरपि चित्स्वरुपताया अविशेषादभिदेव वास्तवीति ॥ ४६ ॥ न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाञ्जलिर्भिदा स्यात् । विपरीतहपत्वगोत्वबाधाद्धयपश्चोर्निजरुरूपकैक्ययुक्तया ।। ४७ ।। यदिमानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि । इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥ ४८ ॥ ननु रवितत्प्रतिबिम्बयोव्र्यभिचारश्चाञ्चल्याचाञ्चल्यादिविरुद्धधर्मवत्वेऽप्यभेदाभा वाभावस्य सत्त्वात्तथाच विरुद्धवैर्मयोरपि तयो रवितत्प्रतिबिम्बयोरिवाभेदो युज्यतामि त्याशङ्कय परिहरति । रवितत्प्रतिबिम्बयोरिव तत्त्वतोऽभिदभेदो घटतामित्यपि न वाच्यं तत्र हेतुव्यमशिवादिदेशिकोक्त्या दर्पणे प्रतिबिम्बितस्य मिथ्यात्वा वगतेस्तथाच बाध्यस्यप्रतिबिम्बस्याभेदयोग्यताया अभावेन व्यभिचाराभावात्तदृष्टा न्तेन जीवेश्वरयोरभेदो न युज्यत इत्यर्थः ।। ४४ ॥ [ व्योमेति । व्योमशिवनामा कश्चित्पाशुपतमतप्रवर्तकस्तत्प्रभृतिगुरूक्त्येत्यर्थः ] ॥ ४४ ॥ किंच भवदीयमतानुयाय्युक्तिरप्यस्तीत्याह । बिम्बमुखान्मुकुरस्थमुखस्य भेदेन समीपस्थलोकावलोकनेन हेतुना प्रतिबिम्बितं मुखं मृषा स्यादिति भवदीयमतानुगो क्तिका च । स्वार्थे कः ॥ ४५ ॥ ननु जीवनिष्ठमौढ्यस्येश्वरसार्वज्ञस्य च विरुद्धधर्मस्य मायिकत्वेन बाधादुभयोरपि चैतन्यस्वरूपताया आविशेषाद्वास्तवोऽभेद एवेत्याशङ्कय परिहारं मतिजानीते । न चेति ॥ ४६ ॥ तत्र हेतुमाह । हि यस्मात्प्रमाणशतैः स्थतस्य विरुद्धधमेस्य बाधो न संभवति बाधाभावेन मायिकत्वमप्यस्य नास्तीति भावः । विपक्षे बाधकमाह । अपरथेति । मानशतैः स्थितस्यापि बाधाङ्गीकारे भेदो दत्तजलाञ्जालः स्यात् । तत्र युक्तमाह । विपरीतयोरश्वत्वगोत्वयोर्वावादश्धपश्धोः स्वरूपस्यैक्यमेवेति युक्त्येत्यर्थः ॥ ४७ ॥ [ अपरथाऽन्यथा ] ।। ४७ ।। यदि प्रत्यक्षादिमानावगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मीति प्रत्यक्षम माणावगतस्य जीवसर्वेश्वरभेदस्य हानमप्यभीष्टं न भवेदित्यर्थः ।। ४८ ॥ १ घ. वृथा ॥ २ घ. 'धर्मिणोर।