पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ श्रीमच्छंकरदिग्विजयः । [ सर्गः १५ ] भवताऽपि तथा हि दृश्यदेहाद्यहमन्तस्य जडत्वमभ्युपेयम् ॥ परिशिष्टमुपेयमेकरुपं ननु किंचिद्धि तदेव तस्य रूपम् ॥ ५५ ॥ जगतोऽसत एवमेव युक्तया त्वनिरुप्यत्वत एव कल्पितत्वात् । तदधिष्ठितभूतस्रपमेष्यं ननु किंचिद्धि तदीश्वरस्य सत्यम् ॥ ५६ ॥ तदिह श्रुतिगोभयस्वरुपे निरुपाधौ न हि मौढ्यसर्ववित्वे ॥ न जपाकुसुमात्तलोहितिम्रः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७ ॥ अपि भेदििधयो यथार्थतायां न भयं भेददृशः श्रुतिर्बवीतु ॥ विपरीतदृशो ह्यनर्थयोगो न भिदाधीर्विपरीतधीर्यतः स्यात् ॥ ५८ ॥ कल्पितं दृश्यत्वाच्छुक्तिरूप्यादिवदिति परिदृश्यमानजीवेश्धरस्वरूपस्य कल्पितत्व युक्त्या तेन स्वरुपेणाधिष्ठितस्य तदधिष्ठानस्य सत्यस्य वस्तुनः सदा नियमनव साक्षादभ्युपगन्तव्यत्वात् । अद्धेत्यस्य पृर्वपदेन वा संबन्धः ॥ ५४ ॥ नन्वभ्युपगन्तव्यं भवद्भिर्मया तु नाभ्युपगम्यत इत्याशङ्कयाऽऽदौ समीक्ष्यमाणजी वस्वरूपाधिष्ठानमभ्युपेयमेवेत्याह । भवताऽपीति । हि यस्माद्भवताऽपि दृश्यस्य देहादेरहमन्तस्य जडत्वमभ्युपेयं तस्य जीवस्य परिशिष्टं तदेव किंचित्सत्यं रूपं स्वीक र्तव्यमेव ।। ५५ ।। तथेश्वरस्वरूपमपीत्याह । असतो जगतो व्युत्थितं प्रति विमतं कल्पितमनिरूप्य त्वाद्रज्जूरगवदित्येवमेव युक्त्या कल्पितत्वात्किचिद्वि तत्सत्यमीश्वरस्य जगदधिष्ठानभूतं रूपमेण्यमवश्यमङ्गीकार्यमित्यर्थः ।। ५६ ।। तत्तस्मादिह श्रुतिगम्ये निरुपाधावुभयस्वरुपे मैौढयसर्ववित्वे नैव स्तः । तत्र दृष्टान्तमाह । जपापुष्पात्प्राप्तस्य लाहितिस्रो निरुपाधिके स्फटिके प्रसक्तिर्न हि स्यात्तद्वत् ॥ ५७ ॥ अपि च भेदधियो यथार्थतायां भेददृशः पुरुषस्य । “मृत्योः स मृत्युमाप्रोति य इह नानेव पश्यति य उदरमन्तरं कुरुतेऽथ तस्य भयं भवति' इत्यादिश्रुतिर्भयं न ब्रवीतु न बूयात् । हि यस्मादनर्थसंबन्धो विपरीतदर्शिनः स्यात् । यतश्च भिदाधीभेदबुद्धिः र्विपरीतधार्न स्यात्तथाचोक्तश्रुत्या भेददर्शिनो भयस्योक्तत्वादनर्थयोगस्य च विपरी तदर्शिन एव युक्तत्वाद्वेदधर्विपरीतवीरेवेत्यर्थः ॥ ५८ ॥