पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अभिदा श्रुतिगाऽप्यतात्त्विकी चेत्पुरुषार्थश्रवणं न तद्वतौ स्यात् । अशिवोऽहमिति भन्नमस्य शास्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९॥ तदबाधितकल्पनाक्षतिने श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।। निगमात्मबलं विलोक्यते माकरणं येन तदीरितस्य बाधः ।। ६० ।। ऋषिभिर्बहुधा परात्मतत्त्वं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।। तदपास्य निरुपितपकारो भवताऽसौ कथमेक एव धार्यः ॥ ६१ ॥ प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव नेयाः ॥ इति नीतिबलात्रयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२ ॥ ५७५ एवं भेददृशाः श्रुतयाऽन्यथानुपपत्त्या भेदबुद्धेर्विपरीतवीत्वमुपवण्र्य ‘तत्र को मोह कः शोक एकत्वमनुपश्यतः' इति श्रुत्याऽभेदज्ञाने श्रुतपुरुषार्थान्यथानुपपत्त्याऽभेदस्य तात्विकत्वमाविष्करोति । अभिदाऽभेदः । श्रुतिगाऽप्यतात्विक्ययथार्था चेत्तर्हि तद्रत । तस्या अभिदाया गतौ ज्ञाने पुरुषार्थस्य श्रवणं न स्यात् । यत्तु यदि मानगतस्ये त्यादि तत्राऽऽह । अशिवोऽहमिति भ्रमस्य प्रत्यक्षसिद्धचन्द्रगतप्रादेशमानत्वबुद्धेरिव शास्त्राद्वाधोऽस्ति । तथाच न चेश्धरोऽहमस्मीति बुद्धिर्भमः शास्त्रेण बाध्यमानत्वा द्विधुमानत्वबुद्विवत्तस्य बाधेन चाभेद् एव श्रुतिगम्यो वास्तव इति भावः । यत एवमतस्तदबाधितकल्पनायाः क्षतिः क्षयो न तु श्रुतिसिद्धात्मपरैक्यबुद्धिबाधोऽतस्त दबाधितत्वकल्पनाक्षतेर्हतोनॉक्तबुद्धिबाध इति पाठान्तरे व्याख्येयम् । कुतो नास्तीति वदन्तं प्रत्याह । निगमात्यबलं प्रमाकरणं प्रमाणं किं विलोक्यते येन निगमोक्त स्याऽऽत्मपरक्यस्य बाधः स्यात् ॥ ५९ ॥ ६० ॥ नीलकण्ठ आह । ऋषिभिः कपिलादिभिर्बहुधा परात्मतत्त्वमथ पुरुषार्थस्य च तत्वमप्युक्तं तदपास्यैक एव निरूपितमकारो भवता कथं धाय बहूनामनुसरणस्य यायत्वात् ॥ ६१ ॥ परिहरति । प्रबलश्रुतिप्रमाणेन विरोधे सति बलहीनाः स्मृतिवाच एव नाङ्गक देव्या इति नयबलाद्वेदत्रयीविरुद्धमृषीणां वचनं ममत्वं न प्राप्नुयात् । तथाच प्रमाण लक्षणस्थो जैमिनिन्यायः । विरोधे त्वनपेक्ष स्यादसति ह्यनुमानमिति । “औदुम्बरी स्पृष्टोद्रायेत्' इतिश्रुतेर्विरुद्धाऽपि सर्वा वेष्टयितव्योति स्मृतिर्मानं न वेति विषयेऽष्टका स्मृतिवन्मानमिति पूर्वपक्षे राद्धान्तस्तु पर्वपक्षमपनुदति । श्रुतिविरोवे स्मृतेः प्रामाण्य मनपेक्षमनादरणीयं स्याद्धि यस्मादसति विरोवे मूलश्रुत्यनुमापकतया स्मृतिरपि मानमिति न्यायार्थः । एवं च वेदविरुद्धवचसां बहूनामप्यनुसरणमन्याय्यमेवेति भाव १. ग. घ. विशेषेऽष्ट' ।