५७६ श्रीमच्छकरदिग्विजयः । [ सर्गः १५] ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथाहि ॥ प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥ ६३ ॥ यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ॥ अमुकः ससुखोऽमुकस्तु दुःस्वीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४ ॥ अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ॥ अत एव भुजेर्भवेत्स कर्ता परभोन्कृत्वमनिप्रसङ्दुष्टम् ॥ ६५ ॥ पुरूषार्थ इहैष दुःस्वनाशः सकलस्यापि सुरवस्य दुःखयुक्त्वात् । अतिहेयतया पुमर्थता नो विषपृक्तान्नवदित्यभेद्ययुक्तः ॥ ६६ ॥ इति चेन्न मुस्वादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ॥ न कथंचन युज्यते पुन: सा घटयेत्प्रत्युत मानसीयभेदम् ॥ ६७ ॥ ॥ ६२ ॥ [ प्रबलेति । अत्र प्राबल्यदौर्बल्ये क्रमान्मूलप्रमाणानपेक्षत्वसापेक्षत्वे एव ] ।। ६२ ॥ एवमुक्तो नीलकण्ठः शङ्कते चतुर्भिः । ननु युक्तियुक्तं महर्षिवाक्यं परं केवलं ग्राह्यतमं न तु त्याज्यम् । युक्तियुक्तत्वमेव दर्शयितुमाह । तथाहीति ॥ ६३ ॥ विपक्षे दोषमाह । यदि चाऽऽत्मन एकता स्यात्तदानीमतिदुःखी युवराजसौख्यं प्रापुयात्किंचामुकः सुख्यमुकस्तु दुःखीत्यनुभवो न स्यात्तयोरभेदात् ॥ ६४ ॥ किंचाऽऽत्मनोऽकर्तृत्वमचेतनस्यान्तःकरणादेः कर्तृत्वमिति भवन्मतमप्ययुक्तमित्या शयेनाऽऽह । अयमेव ज्ञानान्वितः कर्ता हि यस्मादचेतनस्य कर्तृत्वं न दृष्टम् । अत एव भुजेरपि स आत्मा कर्ता भवेद्यत: कर्तुरन्यस्य भोक्तृत्वं देवदत्तकृतकर्मफलभोकृत्वं यज्ञदत्तस्य स्यादित्यतिप्रसङ्गेन दुष्टम् ॥ ६५ ॥ किंच मोक्षोऽपि भवदभिमतोऽयुक्त इत्याशयेनाऽऽह । इह लोके वेदे वा । पुरु षार्थोऽप्येष दुःखनाश एव न तु सुखाप्तिस्तत्राभेद्यां युक्तिमाह । सर्वस्यापि सुखस्य दुःखयुक्तत्वाद्धेयत्वेन विषपृक्तान्नवत्पुरुषार्थत्वं नास्तीत्यभेद्याया युरोहँतोस्तथाचायं मयोगो विमतं न पुरुषार्थो दुःखसंयुक्तत्वाद्विष संपृक्तान्नवत् ।। ६६ ।। परिहरति । इति चेन्नेति । तत्र सुखदुःखाचित्रतावलोकनादिहेतोः पक्षावृत्ति त्वेनाऽऽत्मभेदकत्वाभावे हेतुमाह । सुखादिवित्रताया मनसो धर्मत्वेनाऽऽत्मभेदकत्वं कथंचिदपि न युज्यते प्रत्युत सा चित्रता मानस-यं मनोनि४ भेदं घटयेत् । तस्या मनोधर्मत्वे तु 'कामः संकल्प' इत्यादिश्रुतिर्मानमिति भावः ॥ ६७ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति