पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ०५७७ चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् । तदभावत एव कर्तृता स्यान्न तृणादेरिति कल्पनं वरीयः ॥ ६८ ॥ विषयोत्थमुखस्य दुःखयुक्त्वेऽप्यलयं ब्रह्ममुस्वं न दुःस्वयुक्तम् । पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥ ६९ ॥ इति युक्तिशतोपबूंहितार्थेर्वचनैः श्रुत्यवरोधसौविदछैः ॥ यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैषीत् ॥ ७० ॥ विजितो यतिभूभृता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् । शरणं प्रतिपेदिवान्महर्षि हरदत्तप्रमुखैः सहाऽऽत्मशिष्यैः ॥ ७१ ॥ यांमनामृषभेण नीलकण्ठं जितमाकण्र्य मनीषिधुर्यवर्यम् ॥ सहसोदयनादयः कवीन्द्राः परमद्वैतमुषश्चकम्पिरे स्म ॥ ७२ ॥ विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र । बहुधा विबुधैः प्रशस्यमानो भगवान्द्वारवतीं पुरीं विवेश ॥ ७३ ॥ अथ न हीत्यादि यदुक्तं तत्राऽऽह । चैतन्ययोगविशेष एव देहद्वयेऽचेतनेऽपि कर्तृत्वघटकः स्यात् । तस्य चितियोगविशेषस्याभावादेव तृणादेः कर्तृता न स्यादिति कल्पनमव श्रुत्यनुकूलत्वाच्छूष्ठांमत्य4ः ॥ ६८ ॥ यदपि पुरुषार्थ इत्यादि तत्राप्याह । विषयोत्थपुखस्य दुःखयुक्तत्वेऽपि नाशार हितं ब्रह्मसुखं न दुःखयुक्तम् । ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' 'तत्र को मोहः कः शोक एकत्वमनुपश्यत:’ इत्यादिश्रुतेः । तस्मात्तदेव पुरुषार्थतयाऽवगम्यं न तु तुच्छकं दुःखनाशमात्रम् । स्वार्थे तद्धितः ॥ ६९ ॥ इत्येवं युक्तिशतैरुपहितोऽर्थो येषां तैः पुनश्च सौविदलाः कञ्चुकिनः' इत्यमरा च्छत्यवरोधकञ्चुकवद्भिर्वचनैर्थतिः श्रीशंकराचार्यः स्वयमद्वैतमतं प्रसाध्य परकृच्छा स्रस्य दारुणैस्तथाभूतैर्वचनै: शैवं मतमजैषीत् । निराकरणेन जितवान् ॥ ७० ॥ यतिराजेन विजित: स शैवो नीलकण्ठो गर्वेण सह स्वभाप्यं विसृज्य च पुनले र दत्तप्रमुखैरात्माशष्यैः सह महर्षि शरणं प्राप्तवान् ॥ ७१ ॥ परमत्यन्तं चकम्पिरे । स्मेति पादपृरणे ॥ ७२ ॥ [ परमित्यनेनातुलत्वं भीतेद्य त्यते ] ॥ ७२ ॥ अथ सौराष्ट्रादिषु तत्र तत्र देशेषु स्वायभाष्याणि प्रसार्य विबुधैः सुपण्डितैर्देवैश्च बहुधा स्तूयमानो भगवाञ्शंकरो द्वारवतीं पुरीं विवेश ॥ ७३ ॥