पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७८ श्रीमच्छकरदिग्विजयः । भूजयोरतितप्तशङ्खचक्राकृतिलोहाहतसंभृतव्रणाङ्काः ॥ शरदण्डसहोदरोध्र्वपुण्ड्रास्तुलसीपर्णसनाथकर्णदेशाः ॥ ७४ ॥ शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ॥ मुनिशिष्यवरैरतिप्रगल्भै मृगराजैरिव कुंजराः प्रभमाः ॥ ७५ ॥ इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय ॥ अतिवेलवचोझरीनिरस्तप्रतिवाद्युज्जयिनीं पुरीमयासीत् ॥ ७६ ॥ सपदि प्रतिनादितः पयोदस्वनशङ्काकुलगेहकेकिजालैः ।। शशभृन्मुकुटार्हणामृदङ्गध्वनिरश्रूयत तत्र मूर्छिताशः ॥ ७७ ॥ मकरध्वजविद्विडाप्तांवद्वाञ्श्रमहृत्पुष्पसुगन्धवन्मरुद्भिः । अगरुद्रवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥ ७८ ॥ भगवानभिवन्द्य चन्द्रमौलिं मुनिवृन्दैरभिवन्द्यपादपद्मः ॥ श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥ ७९ ॥ [ सर्गः १५ ] भुजयोरतितक्षेन शङ्कचक्राकृतिलोहेनाऽऽहतेषु ताडितेष्ववयवेषु संभृतानि समा सादितानि व्रणानामङ्कानि यैः पुनश्च शरदण्डसदृश ऊध्र्वपुण्ड्रो येषां पुनश्च तुलसीपत्रै सनाथः कर्णदेशो येषां ते । शतशः पाश्चरात्राः समवेत्यामृतं मोक्षे पञ्चभिदाविदां जीवे श्वरभेदो जीवानां परस्परभेदो जीवानामचितां भेद ईश्वरस्याधितां भेदोऽचितां च पर स्परभेद इत्येवं पञ्चविधभेदविदां वदन्तः प्रगल्मैर्मुनिशिष्यवैरः सिंहैरिभा इव प्रभग्रा इति द्वयोरथैः ॥ ७४ ॥ [ शरस्तृणविशेष: ] ।। ७४ ।। ७५ ।। इत्येवं शैवादीनात्मवशं वदन्तीति तथाविधान्विधायातिक्रान्तवेलामिवैचोझरीभिर्नि रस्ताः प्रतिवादिनो येन स उज्जयिनीं पुरीं प्राप्तवान् ॥ ७६ ॥ पयोदस्वनशङ्कया मेघशैब्दाशङ्कया व्याकुलगेहे पैश्वरादौ रुद्वैर्मयुरसमुदायैस्तत्क्षणे प्रतिनादितः पुनश्च व्याप्ता दिशो येन तथाभूतश्चन्द्रशेखरस्य महाकालाख्यशिवस्ये ज्यासंबन्धिमृदङ्गाणां ध्वनिस्तत्रोज्जयिन्याम श्रूयत ।। ७७ ।। मकरध्वजविद्विषः कामविद्विषः शिवस्य प्राठिं जानातीति तथाभूतः स महाकाल मन्दिरं विवेश । तद्विशिनष्टि । पुप्पसुगन्धवद्वायुभिः श्रमहृत् । पुनश्चागरूद्भवधूपेन धूपिता अभाशा यत्र तत् ।। ७८ ।। मुनिसंधैरभिवन्द्यपादपद्मो विसृत्वरः प्रसरणशीलः प्रभावो यस्य स भगवाञ्शंकर श्रचन्द्रशेखरं महाकालेश्वरमभिवन्द्य श्रमहारिणि मनोज्ञे मण्डपे विश्रामं कृतवान् ॥७९॥ १ 'पत्रस'। २ क. 'शब्दश। ३ क. मन्दिरादौ ।