पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ०५७९ कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ॥ विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥ ८० ॥ अभिरुपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् । तमयन्ननिरस्तदुःसपलं प्रतिपद्येत्थमुवाच वावदूकः ॥ ८१ ॥ जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शंकरयोगिचक्रवतीं ॥ प्रथयन्परमाद्वितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥ ८२ ॥ स जगाद् बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूत्रवृत्तिजालम् ॥ अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसंधिम् ॥ ८३ ॥ तदिदं परिगृह्यतां मनीपिन्मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ॥ अथ वाऽस्मदुदग्रतर्कवज्रप्रतिघातात्परिरक्ष्यतां स्वपक्षः ॥ ८४ ।। इति तामवेहलपूर्ववर्णा गिरमाकण्र्य तदा स लब्धवर्णः ॥ यशसां निधिरीषदात्तरोपस्तमुवाच प्रहसन्यतीन्द्रशिष्यम् ॥ ८५ ।। विश्रम्य यत्कृतवांस्तदाह । इहास्यां पुर्या भट्टभास्कराय कवयेऽस्मदीयवार्ता हे सैम्य कथयेत्युक्त्वा स मुनिर्वशंवदाग्रगण्यं शिष्याग्रगण्यं समीपगतं पद्मपादार्य विस सज्जे ॥ ८० ॥ वावद्रकोऽतिवक्ता सनन्दनायस्तं प्रतिपद्योवाच । तं विशिनष्टि । अभिरूपकुलस्य बुधगणस्यावतंस्पभूतम् । 'अभिरूपो बुधे रम्ये' इति मेदिनी । बहुधा व्याख्यातो वेदरा शिर्येनायत्नेन निरस्ता दुःसपत्ना येन तम् ॥ ८१ ॥ यदुवाच तदाह । यो दिगन्तगीतकीर्तिर्भगवाञ्शंकरयोगिचक्रवर्ती परममद्वैततत्त्वं पथयंस्तस्य परिपान्थनां वादिनां गवें शमयञ्जयति स्म । स बुवाग्रणीर्भवन्तं जगादे तिपरेणान्वयः ।। ८२ ।। यद्वभाष तदाह । कुत्सित मत यषा त कुमैतरुत्प्रेक्षितं सृत्रवृत्तिजालमभिभूय वेदान्तानां परावरे ब्रह्माभिन्ने प्रतीचि तात्पर्थमवादिप्म ॥ ८३ ॥ तत्तस्मादिदमस्मदीयं मतं मनसाऽऽलच्य स्वीयं मतं विहाय परिगृह्यतां यतो हे मनीषिन् । अथवा स्वमते दुराग्रहश्चत्तर्हस्मदीयोदग्रतर्कलक्षणवत्रप्रतिघातात्स्वपक्षः परि रक्ष्यताम् ॥ ८४ ॥ इत्येवमवज्ञापूर्वका वर्णा यस्यां तां गिरमाकण्र्य स लब्धवर्णो विचक्षणो यशसां निविरीषत्प्राप्तरोषो भट्टभास्करः हसंस्तं यतीन्द्रशिप्यमुवाच ॥ ८५ ।।