पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८२ श्रीमच्छकरदिग्विजयः । [ सर्गः १५] अविकारिनिरस्तसङ्गबोधैकरसात्माश्रयता न युज्यतेऽस्याः ॥ अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादितिं नापि शङ्कनीयम् ॥ ९७ ॥ न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथाहि ॥ अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्रुते तथा चेत् ॥ ९८ ॥ अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् । अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥ ९९ ।। ननु दाहकता यथाऽग्रियोगादधिकूटं व्यपदिश्यते तथैव ॥ अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १०० ॥ इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः ॥ न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिहिं ॥ १ ॥ नन्वस्या विकारिण्या अबोधरूपायाः प्रकृतेरविकारी निरस्तसङ्गः ज्ञानैकरसस्वरूपं ब्रह्माऽऽश्रयो न युज्यते विरोधात् । अत एवान्तःकरणविशिष्टसंश्रितत्वं प्रकृतेः स्यादि त्याशङ्य परिहरति । आविकारीति । अत एवेत्यपि न शङ्कनीयामिति वा ।। ९७ ।। [ विशिष्ठति । प्रकृतिलेशात्मकाविद्याविशिष्टजीवसंश्रितत्वमित्यर्थः ] ।। ९७ ।। हि यस्मात्त्वयाऽऽपादिते विशिष्टगत्वे प्रमाणकथा न दृश्यते । नन्वहमज्ञ इति विशिष्टाश्रिताज्ञानानुभव एव मानमित्याशङ्कयाऽऽह । तथाहीति । इहास्मिन्नर्थेऽह मज्ञ इत्येषा प्रतीतिर्मानत्वं न ह्यश्रुते । तथा चेदित्यस्योत्तरेण संबन्धः ।। ९८ ।। [ विशिष्टगत्वे प्रकृतेर्विशिष्टस्तदेकदेशीभूताविद्याविशिष्टो यो जीवस्तन्निष्ठत्वे विषय इत्यर्थः ] ।। ९८ ।। विपक्षे दोषमाह । तथा चेदुक्तप्रतीतिर्मानत्वमश्रुते चेदह्यमनुभवीत्यपि प्रतीतेर्हतो रनुभूतेरपि विशिष्टनिष्ठता स्यात् । इष्टापतिमाशङ्कयाऽऽह । अजडस्यानुभवस्य जडा न्तःकरणनिष्ठत्वं न संभवतीति हेतोस्तस्या विशिष्टनिष्ठताया इष्टता नास्ति । ९९ ।। भट्टभास्करः शङ्कते । ननु यथा दाहकवह्नितादात्म्यालोहपिण्डे दाहकता व्यपदि श्यते तथैवानुभूतिभदात्मतादात्म्यादन्तःकरणे साऽनुभूतिव्र्यपदिश्यत इत्यर्थः ॥१००॥ परिहरति । इति चेन्मैवं यतस्तथेहापि मायाश्रयचिन्मात्रयुतेऽन्तःकरणे तस्या ज्ञानस्योपचारो न पुनस्तस्य चिन्मात्रस्योपाधेः पछतेयगतोऽन्तःकरणस्येत्यन्यथा गतिः समाना ।। १ । [ इहाप्यहमज्ञ इत्यनुभवेऽपीत्यथेः ] ॥ १ ॥ । १ ग. *ति नो विश* ।