पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलितः । न च तत्र हि बाधकस्य सत्त्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ॥ इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥ २ ॥ अधिमुप्त्यपि चित्तवर्ति तत्स्याद्यदि चाज्ञानमिदं हृदाश्रितं स्यात् । तदिहास्ति न मानमुक्तरीत्या प्रकृतेर्दश्यविशिष्टनिष्ठतायौम् ॥ ३ ॥ ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्रतेति ॥ प्रतिबन्धकशून्यता तु सृप्तः परमात्मैक्यगतेः सतेति वाक्यात् ॥ ४ ॥ न च तत्र च तत्स्थितपतीतिः सति संपद्य विदुर्न हीति वाक्यात् । श्रुतिगीस्तदधिक्षिपत्यभावमतिपत्तेर्न च निह्नवोऽत्र नेति ॥ १०५ ॥ ५८३६ ननु तत्रान्तःकरणेऽनुभूतेव्यैपदेशेऽजडानुभवस्य जडान्तःकरणस्थत्वमनुपपन्नमिति बाधकस्य सत्त्वादनुभूतिमदात्मयोगादन्तःकरणेऽनुभूतिव्यपदेश इतीयं गतिरस्तु प्रकृ तेऽन्तःकरणस्य मायाश्रयत्वे बाधाभावान्मायाश्रयचिन्मात्रयुतेऽन्तःकरणेऽज्ञानस्योप चार इत्युक्ता सा गतिर्नास्तीत्याशङ्कय परिहरति । इति न च वाच्यमिति । कुत इत्यपेक्षायामाह । तजे विद्याजनिते चित्ते विद्याश्रयत्वायोगस्य बाधकत्वात् ।। २ ।। किंचेद्मज्ञानं यदि हृदाश्रितं स्यात्तह्यधिसुप्त्यापि सुषुप्तावपि चित्तवति तदज्ञानं स्याँक्तत्तस्मादिहास्यां पकृतेईश्यान्तःकरणविशिष्टनिष्ठतायामुक्तरीत्या प्रमाणं नास्त्यत श्चिद्रतैव सेत्यर्थः ।। ३ ।। एवमुक्तो भट्टभास्करः शङ्कते नन्वित्यादिचतुर्भिः । ननु सुषुप्तौ जीवब्रहौक्यपातब न्धिकाऽविदैव नास्तीति हेतोः साऽविद्या तदानीं विद्रतेति दूरत एव । अत्र प्रमा णाकाङ्क्षायामाह । सुझे प्रतिबन्धकशून्यता तु “सता 'सौम्य तदा संपन्नो भवति स्वमपीतो भवति' इति वाक्याज्जीवस्य परमात्मनैक्यस्यावगतेस्तथाचोक्तश्रुतिवाक्यमे वात्र प्रमाणमिति भावः ।। ४ ।। ननु सति संपद्य न विदुरिति वाक्यात्तत्र सुषुप्तावज्ञानास्थतिप्रतीतिरित्याशङ्कय परिहरति । न चेति । साति परमात्मनि संपधैक्यं प्राप्य जना न विदुः किमपि न जानन्ति । हेतुमाह । यत उक्तश्रुतिगीस्तज्ज्ञानमधिक्षिपति निषेवति । ननु निह्नवो ज्ञाननिषेधोऽत्र नास्तीत्याशङ्कय परिहरति । न चेति । निह्नवोऽत्र श्रुतिगिरि नांत न च । अत्र हेतुमाह । न विदुरिति ज्ञानाभावप्रतीतेरिति ॥ ५ ॥ १ क. *द्यदि वा ज्ञा' । ५ ग. स्वयम २ क. याः । ३ । न । । ३ ग. घ. स्यात्तस्मा' । ४ ग. साम्य .