पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छक्करदिग्विजयः । किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्तयभावात् ॥ अनिवर्तकसत्त्वतोऽस्य नान्त्यो न हि भिद्यादविरोधि चित्प्रकाशः ॥ ६ ॥ न च तच्छमयेज्जडप्रकाशोऽप्यविरोधात्सुतरां जडत्वतोऽस्य ।। तदिहाप्रतिबन्धकत्वमस्य प्रभवेत्कित्विह तद्भमाग्रहादि ।॥ ७ ॥ इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ॥ अतिविस्मृतिशीलता तवाहो गदितुः सर्वपदार्थसंकरस्य ॥ ८ ॥ [ सर्गः १५] किंचैतदज्ञानं किमु नित्यमुतानित्यमेवेति विकल्प्य दूषयति । किम्विति । इहोक्त विकल्पद्वये प्रथमो विकल्पः सम्यङ्नास्ति । तत्र हेतुर्युक्त्यभावात् । नान्त्योऽस्यानि वर्तकसत्त्वतो निवर्तकसत्वाभावात् । एतदेवोपपादयन्किमस्य चित्प्रकाशो निवर्तक उत जडप्रकाश इति विकल्प्याऽऽद्य प्रत्याह । हि यस्मात्तदज्ञानमविरोवि चित्प्रकाशो न भिद्यात् । उत्तरश्लोकस्थतत्पदमत्रापि संबन्धनीयम् ॥ ६ ॥ [ आविरोधीति । साक्षित्वेनाज्ञानविरोवित्वविधुर एतादृशो यश्चित्पकाशः स तावदज्ञानं प्रकृतं भावरू पत्वेन भवत्संमतं नैव भिद्यादित्यन्वयः ] ॥ ६ ॥ द्वितीयं प्रत्याह तदज्ञानं जडप्रकाशो न च शमयेत्तत्र हेतुर्जडेन जडस्य विरराधा भावात् । *तस्तस्मादिहावस्थात्रयेऽस्याज्ञानस्यापतिबन्धकत्वं प्रभवेदज्ञानं प्रतिबन्धकं न भवतीत्यर्थः । तथाच सकलसंसारबीजभतमवस्थात्रयेऽप्यनपाथि संसारविमोक्षद्वारा जायमानमज्ञानमस्तीति भवत्सिद्धान्तोऽनुपपन्न इति भावः । किं तर्हि प्रतिबन्धक मित्याशङ्कयाऽऽह । किं त्विति । इहावस्थात्रये तत्प्रतिबन्धकं चिदनवभासनिमित्तं भमाग्रहादि । भ्रमो मिथ्याज्ञानमग्रहोऽग्रहणम् । अादिपदेन तत्संस्कारादिसंग्रहः । ॥ ७ ॥ [ प्रतिबन्धकत्वं जीवब्रहक्यभान इत्यार्थिकम् । प्रभवेत्किमपि तु नैव प्रभवे दित्यर्थः । नन्वेवं तर्हि निद्रातो व्युत्थितस्य किंविषयकः परामर्श इत्यत्राऽऽह । त्विहेत्यादिशेषेण । इह सुषुप्तौ तु भ्रमाग्रहाद्येव तदज्ञानत्वेन जाग्रतिपरामृश्यमानं वस्त्वस्तीत्यथे: ] ॥ ७ ॥ भ्रमे निरस्ते संस्कारनिरासोऽर्थात्सेत्स्यत्यग्रहणं त्वयंग्यत्वादेव नोपपन्नमित्यामि प्रायेणाऽऽचार्य आह । इतीति । भिन्नाभिन्नविषयत्वेन सर्वपत्यययाथाथ्यन्न भ्रमसि द्धिरिति किंशब्दार्थः । प्रश्नं मत्वोत्तरमाह । मनुष्योऽहमित्यहंकारादिदेहपर्यन्तेऽना त्मन्यात्मबुद्धिर्भत्रैम इत्यर्थः । उपहासपूर्वकमुत्तरं वक्तमाचार्य आह । इति चेत्राहो सर्वपदार्थसंकरस्य वतुस्तवातिविस्मरणशीलता ॥ ८ ॥ [ सर्वेत । भेदाभेदाभ्यां एतदारभ्य ग्रह इत्यन्तो ग्रन्थ: ' क ' 'ग.' पुस्तकयोर्न दृश्यते । १ कः ग. "दिह प्र' । २ ग. किं ।