पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलिसः । प्रमितित्वमुपाश्रयन्प्रतीतेरमुकः खण्ड इति स्वशास्रसिद्धात् ।। भिदभिइयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ ९ ॥ अनुमानमिदं तथाच सिद्धं विमता धीः प्रमितिर्भिदाभिदत्वात् । इह चारु निदर्शनं भवेत्सा तव खण्डोऽयमिति प्रतीतिरेषा ॥ ११० ।। ननु संहननात्मधीः प्रमाणं न भवत्येव निषिध्यमानगत्वात् । इदमिति प्रतिपन्नरुप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥ ११ ॥ व्यभिचारयुतत्वतोऽस्य खण्डः पथुरित्यत्र तदन्यधीस्थमुण्डे ॥ इतरत्र निषिध्यमानस्खण्डोलिखितत्वेन निरुक्तहेतुमत्वात् ॥ १२ ॥ ५८९ सर्ववस्तुसंमिश्रीभावस्येत्यर्थः । अतीति । परमविस्मरणशीलताऽस्तीत्यर्थः । तथा च त्वन्मते भ्रमः पदार्थ एव नास्तीति भावः ] ।। ८ ।। विस्मरणशीलतामेवाऽऽह । सर्वस्यापि भिदभिङ्कयविषयत्वात्स्वशास्रसिद्धाद्धेतोरमुक खण्ड इति भेदाभेदप्रत्ययस्य प्रमाणत्वमुपाश्रयन्नह मनुज इति प्रत्ययं भेदाभेदविषयं तु त्वं भेदाभेदाभ्यां सर्वसंकरवादी किमित्युपेक्षसे ॥ ९ ॥ तथाचेदमनुमानं सिद्धम् । विवादास्पदाऽहं मनुज इति बुद्धिः प्रमाणं भिन्नाभिन्नवि षयत्वात्सा खण्डोऽयमित्येषा तव प्रतीतिरिहानुमाने चारु निदर्शनं दृष्टान्तः ॥११०॥ ननु संघातात्मबुद्धिरप्रमाणं निषिध्यमानविषयत्वादिदमिनि प्रांतपन्नरजतबुद्ध वादति साध्याभावसाधकहेत्वन्तरेण प्रबलां सत्प्रतिपक्षतामापादयति भट्टभास्करः । नन्विति । नाहं मनुजो ब्रह्मास्मीति प्रतिपत्ययसामथ्र्यान्निषिध्यमानविषयत्वमित्यर्थः । दृषयती । इति चेन्नेति ॥ ११॥ [इदमिति प्रतिपन्नेत्यत्र 'प्रह्माभ्यां च' इति वचनेन पृर्ववर्णस्य वैकाल्पकगुरुत्वाभिधानात् ‘सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्रमनीयव स्रा' इति कुमारसंभवे तथैव प्रयुक्तत्वाच न च्छन्दोभङ्गापत्तिरिति दिक् ] ॥ ११ ॥ तत्र हेतुमाह । अस्य हेतोः खण्डः पशुरित्यत्र व्यभिचारयुक्तत्वात् । कुत एतदिति तत्राह । इतरत्र नायं खण्डो गौः किंतु मुण्डो गौरिति खण्डान्यधीस्थे मुण्डे निषिध्यमानखण्डोलिखितत्वेन निषिध्यमानविषयत्वरूपनिरुक्तहेतुमत्वात् । तथाच खण्डमुण्डाभ्यां गोत्वस्याभेदैप्रत्ययवद्देहब्रह्मभ्यां जीवस्याभेदप्रत्ययस्यापि प्रामाण्यो पपत्तिरिति भावः ।। १२ ।। अर्श आदेराकृतिगणत्वादच । १ क. घ. 'भित्विा ' । २ क. ग. 'दव' । ३ क. ग. "यस्य प्रा' ।