पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । १५८५० ननु भातितरामुपाधिरत्रादलदेतद्यवहर्तृतेति चेन्न ॥ अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥ १८ ॥ ननु तद्यवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ॥ श्रुतिवाक्यगतेन संप्रतीतेव्र्यवहर्तुर्न कथं छिदेति चेन्न ॥ १९ ॥ तदिदं घटते मतेऽस्मदीये तदबोधोलुसितत्वतोऽखिलस्य ॥ तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥ १२० ॥ ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ॥ प्रथितस्थलपञ्चकेतरत्वात्फलिता ह्यत्र तथाच हेत्वसिद्धिः ॥ २१ ॥ अत्रानुच्छिन्नेतद्यवहारत्वमुपाधिरतिशयेन भातीति शङ्कते । नन्विति । नायं खण्डो गौरिति निषेधपत्ययोत्तरकालमपि खण्डे गोत्वव्यवहारो लक्ष्यते न तथा ब्रह्म साक्षात्कारादूध्वं मनुजत्वव्यवहार इति भावः । साधनव्यापकत्वान्नायमुपाधिरिति समाधत्ते । इति चेन्न साक्षात्कारोत्तरकालमपि प्रारब्धकर्मानुरोधादहं मनुज इत्यह मोऽनुभवेन साधनव्यापकत्वात् ॥ ५८ ॥ [ अदलन्त्यनुच्छिद्यमाना चासावेतद्यवह र्तृता चेत्यर्थः ] ॥ १८ ॥ चोदयति । नन्विति । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति श्रुतिवाक्य गतन माक्ष इह तत्कैन कमित्यनेन तद्वद्यवहाराच्छन्दस्य सम्यक्प्रतीतेव्र्यवहर्तुरुच्छेद कथं नास्ति किं त्वस्त्येव । परिहरति । इति चेन्नेति ॥ १९ ॥ यस्मात्तदिदमस्मदीये मते वटते तस्य परब्रह्मणोऽबोवः स चासावबोध इति वा । सर्वस्य तदज्ञानविलसितत्वात्तदज्ञानलये लयोपपत्तेः । ते मते तु जगतः सत्यतयां च्छेदो न स्यात् ॥ १२० ।। भिन्नाभिन्नविषयत्वस्य हेतोरसिद्धिं शङ्कते ननु जातिव्यक्तिगुणगुणिकार्यकारणवि शिष्टस्वरूपांशांशिसंबन्धा यत्र विद्यन्ते तत्र पश्चसु तु स्थलेषु भेदोऽभेदश्च न तु शरी रदेहिनोस्ते भिदाभिदे तत्र हेतुरुक्तः प्रथितस्थलपञ्चकेतरत्वात् । अयमर्थः । देहदेहिनो द्रव्यत्वाज्जातिव्यतिा गुणगुणिभावश्च न संभवति । नापि कार्यकारणता देहस्य भौति कत्वात् । नापि विशिष्टस्वरूपता दण्डवैशिष्टयस्य चैत्रतश्रतावद्देहस्याऽऽत्मतत्रत्वा भावात् । नाप्यंशांशिता देहिनो निरवयवद्रव्यत्वात् । तथाचात्र देहदेहिनोहँत्वसिद्धि रेव फलितेत्यर्थः ।। २१ ।। १ ग. ध. 'चेन्छन्नव्यव'। २ ग. घ. 'क्तित्वं गुण'।