पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । १८९ ननु रक्ततममसूनयोगात्स्फटिके संस्फुरणं यथाऽरुणिम्रः ॥ भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥२८॥ इति चेदयमीरयाऽऽत्मयोगोत्रमणस्याऽऽश्रित एप सन्नसन्वा ॥ प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शून्यकत्वात् ॥ २९ ॥ चरमोऽपि न युज्यतेऽपरोक्षप्रथनस्यानुपपद्यमानतायाः । परिणामविशेष आत्मनोऽसौ भन्नम इत्येष न युज्यतेऽन्त्यपक्षः ॥१३०॥ असभागतयाऽऽत्मनो निरस्तेतरयुक्तः परिणत्ययोग्यतायाः ॥ परिणत्यर्युजेश्च योग्यतायामपिबुद्धयाकृतितश्चिदात्मनोऽस्य ॥ ३१ ॥ न हि नित्यचिदाश्रयप्रतीचः परिणामः पुनरन्यचित्स्वरुपः ॥ गुणयोः समुदायगत्ययोगाद्रुणतावान्तरजातितः सजात्योः ॥ ३२ ॥ ननु रक्ततमस्य जपाकुसुमस्य योगाद्यथा स्फटिके लैोहित्यस्य स्फुरणं तथा भ्रमसं युतचित्तयोगादस्य भ्रमस्याऽऽत्मन्यनुभवः स्यादिति शङ्कते । नन्विति ॥ २८ ॥ एतत्परिहर्तु पृच्छति इति चेदयमन्त:करणाश्रितस्य भ्रमस्य स्वीकृत आत्मसंबन्ध सन्नसन्वा तत्र प्रथमो न घटते । अन्यथाख्यातिवादिनस्तव मते संसर्गस्य शून्यत्वात् । तथाचाऽऽत्मभ्रमसंबन्धो न स्यादित्यर्थः ॥ २९ ॥ नाप्यसत्त्वमपरोक्षमथाया अनुपपद्यमानत्वादित्याह । चरमोऽपीति । एवमन्तःक रणस्य परिणामो भ्रम इति पक्ष निराकृत्याऽऽत्मनः परिणामविशेषोऽसै भ्रम इत्ये तमन्त्यपक्ष निराचष्ट । परिणामविशेष इति ॥ १३० ॥ तत्र हेतुर्निरस्तेतरसङ्गस्याऽऽत्मनोऽसभागतया निरवयवद्रव्यत्वेन परिणामायो ग्यत्वात् । परिणामित्वमङ्गीकृत्याप्याह । योग्यतायामपि बुद्धयाकृतितो ज्ञानान्तरा कारेण चिदात्मनोऽस्य परिणामायोगादित्यर्थः ।॥ ३५ ॥ हि यस्मान्नित्यज्ञानाश्रयस्य सुखमहमस्वाप्सं न किंचिदवेदिषमिति सुप्तोत्थित परामशनुमेयं करणविरमेऽपि सत्त्वेन नित्यं च यज्ज्ञानं तदाश्रयस्य प्रत्यगात्मनः पुन रन्यचित्स्वरूपो भ्रमज्ञानात्मकः परिणामो न संभवति । गुणताँवान्तरजातितः सजा त्योर्गुणयोः समुदायगत्ययोगाद्युगपत्समवायायोगात् । एकद्रव्याश्रितरूपरसादिगुण व्यावृत्यर्थे गुणतावान्तरेति विशेषणम् ॥ ३२ ॥ [ गुणतेति । गुणत्वावान्तरजात्ये त्यर्थः ] ॥ ३२ ॥ १ घ. "युतश्च । २ क. 'यं कार' । ३ क. भ्रमात्म' । ४ क. घ. "ताजाताववा' । ७४