पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ५९१ इति युक्तिशतैरमत्र्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा । श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥ ३९ ॥ इति भास्करदुर्मतेऽभिभूते भगवत्पादकथामुधा प्रसस्र । घनवार्षिकवारिवाहजाले विगते शारदचन्द्रचन्द्रिकेव ॥ १४० ।। स कथाभिरवन्तिषु प्रसिद्धान्विबुधान्बाणमयूरदण्डिमुख्यान् ।। शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांश्चकार ।। ४१ ॥ प्रतिपद्य तु बालिकान्महर्षे विनयिभ्यः प्रविवृण्वति स्वभाष्यम् । अवदन्नसहिष्णवः प्रवीणाः समये केचिदथार्हताभिधाने ।। ४२ ।। ननु जीवमजीवमास्रवं च श्रितवत्संवरनिर्जरौ च बन्धः । अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान्कथमेव सप्तभङ्गया ॥ ४३ ॥ मते संभवतः । सकलव्यवहारस्य संकीर्णत्वात् । जीवनिकाऽपि ते दुर्लभा तत्तस्माद् लामित्याह । अपि चेति ॥ ३८ ॥ इत्येवं युक्तिशतैः सोऽमत्यैकीर्तिर्भगवान्भाष्यकारस्तमनलसं सुधीन्द्रं भट्टभास्करं जित्वा श्रुतिभावविरोधिभावभाजं विमतग्रन्थं झटिति ममन्थ ॥ ३९ ॥ इत्येवं भास्करदुर्मतेऽभिभूते सति भगवत्पादकथालक्षणा सुधा प्रसन्ने विस्तारं गता । यथा घनीभूतानां वार्षिकपयोदानां जाले विगते सति शरत्कालीनचन्द्रच न्द्रिका तद्वदित्यर्थः ।। १४० ॥ सोऽवन्तिषु जनपदेषु प्रसिद्धान्बाणादीन्पण्डितान्कथाभिः शिथिलीकृतदुर्मताभिमा नान्निजभाष्यश्रवणोत्कण्ठितांश्चकार । कथाभिः प्रसिद्धानिति वा ॥ ४१॥ [स प्राकृतः श्रीशंकराचार्यः] ॥ ४१ ॥ बाङ्गलिकांस्तु देशान्प्रातिपद्य महर्षे श्रीशंकरे शिष्येभ्यः स्वभाष्यं विवृण्वति सत्या तसंज्ञके विवसनसमये प्रवीणाः केचिदसहिष्णव ऊचुः ॥ ४२ ॥ [ मविवृण्वति प्रकर्षेण विवेचयति सतीत्यर्थः ] || ४२ ॥ बोधात्मको जीवो जडवर्गस्त्वजीव एतयोरयमपरः प्रपञ्चो जीवास्तिकायः पुद्रला स्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आाकाशास्तिकायश्चेति पञ्च । अस्तिकाया नामा liत कायन्ते शब्द्यन्त इत्यस्तिकायाः । फै गै शब्द इति स्मरणात् । तत्र जीवा कायत्रिधा बद्धो मुक्तो नित्यसिद्धश्च । अर्हन्नित्यासिद्ध इतर केचित्साधनैर्मुक्ता अन्य बद्धाः । पुद्रलास्तिकायः षोढा । पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । णानुकूलव्यापारानुकूलव्यापारार्थकात्प्रोपसृष्टात्मृधातोः कर्मकर्तरि लिट्तत आत्मनेपदम् ।

ग. इरात यु ।