पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धमत्या । वपुरुन्मथितं भवेतु पूर्वे बत कात्स्न्येन वपुर्न चेतयेयुः ॥ ४९ ॥ चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ॥ इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ।। १५० ॥ बहवोऽपि नियामकस्य सत्त्वात्सुमते तत्र भजेयुरैकमत्यम् ॥ कथमत्र नियामकस्य तद्वद्विरहात्कस्यचिदप्यदो घटेत ॥ ५१ ॥ उपयान्ति न चापयान्ति जीवावयवाः किंतु महत्तरे शरीरे ॥ विकसन्ति च संकुचन्त्यनिष्ट यतिवर्यात्र निदर्शनं जलौका ॥ ५२ ॥ यदि चैवममी सविक्रियत्वाद्धटवते च विनश्वरा भवेयुः ॥ इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसंगमौ भवेताम् ॥ ५३ ॥ अपि चैवमैलाबुवद्रवाब्धौ निजकर्माष्टकभारमग्रजन्तोः ॥ सततोध्र्वगतिस्वरुपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥ ५४ ॥ [ सगेः १५ ] अभाचार्य उवाच । किं तेषामचेतनत्वमत चेतमत्वमिति वद । तत्रान्त्ये पक्षे बहूनां चेतनानामेकाभिप्रायनियमाभावात्कदाचिद्विरुद्धमत्या शरीरमुन्मथितं भवेत् । आद्ये तु कात्स्न्येन शरीरं न चेतयेयुः ॥ ४९ ॥ अन्त्यकल्पमवलम्ब्याऽऽईत आह । यथा बहवोऽप्यश्धा एकमत्या रथं चल यन्ति तथाऽन्योन्यमपतीताश्चेतनतामपि प्रतिपद्य हे तत्त्वज्ञाधिपेंतेऽङ्गं शारीरमेजयन्तु चालयन्तु ॥ १५० ।॥ [ अन्त्यपक्षेणाऽऽईत भाह । वलयन्तीति ] ॥ १५० ।। आाचार्यः परिहरति । बहवोऽपि वाजिनो नियामकस्य सत्त्वादैकमत्यं तत्र रथ चालने भजेयुरत्र तु तद्वत्कस्यचिदपि नियामकस्याभावादद ऐकमत्यं कथं घटेत् । कटाक्षेण संबोधयति । हे सुमत इति ॥ ५१ ॥ अभाईत आह । उपयान्तीति । अनिटे पुतिकादिदेहे ॥ ५२ ॥ एवमुक्त आचार्य उवाच । यदि चैवं तर्हि स विक्रियत्वात्तेऽमी विनश्धरा भवेयु रित्येवं जीवे नश्वरतां प्रयाति सति कृतनाशाकृताभ्यागमौ भवताम् ॥ ५३ ॥ किंचेवं सति तुम्बिकावत्संसारसागरे निजकर्माष्टकभारेण मग्रस्य जन्तो सततो ध्र्वगतिस्वरूपो मोक्षस्तव सिद्धान्तसमर्थितो बाध्येत ।। ५४ ।। १ ग. घ. वलयन्ति । २ ग. घ. जलूका । वलयान्ति । ५ ग. ध. 'ते श' । ३ घ. 'मलाम्बु' । ४ क. चालयन्ति । ग