पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९६ श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाचैः ॥ विहितापचितिस्तथाऽङ्गवङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥ ६१ ॥ अभिभूप मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ॥ अवधूय च धर्मगुप्तमिश्र स्वयशः प्रौढमगापयत्स गौडान् ।। ६२ ।। पूर्वे येन विमोहिता द्विजवरास्तस्यासतोऽरीन्कलौ बुद्धस्य प्रबिभेद मस्करिवरस्तान्भास्करादीन्क्षणात् ।। शास्त्रान्नायविनिन्दकेन कुधिया कूटपवादाग्रहा न्निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ।। ६३ ।। शातैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै रप्यन्यैरखिलैः स्विलं खलु खलैर्दूर्वादिभिर्वेदिकम् ॥ मार्गे रक्षितुमग्रवादिविजयं नो मानहेतोव्यधा त्सर्वज्ञो न पतोऽस्य संभवति संमानग्रहग्रस्तता ॥ ६४ ॥ इत्येवमुदीच्यानुत्तरादेशेि भवान्स्वशिष्यपदं गतान्विधायाथ विदेहादैर्विहिता पूजा यस्य स तथाऽङ्गादिष्वयं यश अनास्ताये गौडाञ्जगाम ॥ ६० ॥ तेषु गौडदेशेषु स्थितान्मुरारिमिश्रादीन्विजित्य मैौढं स्वयशो गैोडदेशोद्भवानगा पृपयत् ॥ ६२ ।। पूर्व कलौ येन शास्त्राम्रायविनिन्दकेन कुबुद्धिना द्विजवरा विमोहितास्तस्यासतो बुद्धस्यारीरींस्तान्भास्करादीन्निगमागमादिषु निष्णातः पारं गतो मस्कारवररो यातिश्रेष्ठ श्रीशंकराचार्यः क्षणमात्रेण प्रबिभेद । ननु बुद्धारीणां तेषां प्रविभेदनमनुचितमित्या शङ्कानिरासाय तान्विशिनष्टि । कृटेषु मिथ्याभूतेषु प्रवादेष्वाग्रहो येषाम् । नन्वेवं तर्हि बुद्धमतस्थापनं कृतं भविष्यतीत्याशङ्काव्यवच्छेदायाऽऽह । कूटग्रहे मिथ्या भूतपक्षस्वीकारे दक्षस्य बुद्धस्यापि मतं प्रबिभेदेत्यनुषज्यते । शार्दूलविक्रीडितं वृत्तम् ॥ ६३ ॥ शाक्तादिभिरन्यैवैशेषिकादिभिरपि सवर्दूधैवदिभिः खिलमुच्छिन्नं वैदिकं मार्गे रक्षितुं सर्वज्ञः श्रीशंकराचार्य उग्रवादिविजयं व्यधान्मानहेतोर्न । यतोऽस्य संमान ग्रहग्रस्तता न संभवति ॥ ६४ ॥