५९८ श्रीमच्छकरदिग्विजयः । शान्तल [ सर्गः १५ ] उचण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापते पृर्व मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बरः ॥ जाताः शब्दपरंपरास्तत इमाः पाखवण्डदुर्वादिना मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥ ६८ ॥ बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विदुत कोणे द्राङ्कणभुग्व्यलीयत तमः:स्तोमावृतो गौतमः ।। भम्रोऽसौ कपिलः पलायत तत: पातञ्जलाश्चाञ्जलिं चकुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥ ६९ ॥ हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधा काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः । गाढं बन्दीकृतास्ते मुचिरमथ पुन: स्वस्वराज्ये नियुक्ता सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा ॥१७० ।। शान्त्याद्यर्णवाडवानलशिखा सत्यात्रवात्या दया ज्योत्स्रादर्शनशाऽथ शान्तिनलिनीराकाशशाङ्कद्युतिः । आस्तिक्यद्रमदावपावकनवज्वालावली सत्कथा हंसीमावृडस्वण्डि दण्डिपतिना पोस्वण्डवाङमण्डली ॥ ७१ ॥ पणस्य ग्लहस्य बन्धनेन बन्धुरतरेऽतिशोभने प्रचण्डे पूर्व मण्डनस्य खण्डने यो वाचंयमक्ष्मापतेर्डिण्डिमाडम्बरः समुदभृत्तस्माडिण्डिमाडम्बराज्जाताः शब्दपरंपरा अद्य पौखण्डदुर्वादिनां श्रोत्रतटाटवीषु दावाग्रिज्वालतां दधते ॥ ६८ ॥ किंच युद्धाय समुद्यतो बौद्धः किल पुरः स्थित्वा क्षणाद्वित: । कणादम्तु झटिति कोणे विलयं गतः । गौतमस्तु तमःस्तोमेनाऽऽवृतः कचिद्राढान्धकारे मग्रः । असैौ कपिलस्तु भद्मः संस्ततः पलायत । ततस्तस्मात्कारणादिति वा । पातञ्जलाश्चाञ्जलिं चत्रकस्तस्य यांतपत: सा चतुरता केनोपमायत ॥ ६९ ॥ केचित्काणादाद्या वैदिका वादियोधाः संग्रामे हस्तयाहं गृहीता हस्तेन गृहीता इत्यर्थः । परे तु वेदबाह्याश्चार्वाकाद्या बलात्कारेणाभिहताः । हन्तेति हर्षे । ते काणादाद्याः सुचिरं गाढं बन्दीकृताः । अथ पुनः स्वस्वराज्ये स्वस्वरूपब्रह्मानन्दलक्षणे नियुक्तास्तं सेवन्ते । तथाचाहो अतिचित्रा यातिभूमिपतेः शूरता वा दया वा । स्त्रग्धरा वृत्तम् ॥ १७० ॥ किंच पॉखण्डवाड्मण्डली दडपतिनाऽऽखण्डि खण्डिता। तां विशिनष्टि । शान्त्या १ ग. पाण्ड। २ ग. पापण्ड' । ३ ग. ध. पापण्ड' । ४ ग. घ. पापण्ड' । ५ क. ग. ध.
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति