पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरै कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः ।। दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं शान्तं संप्रति खण्डिताश्च निबिडाः पांस्खण्डचण्डातपाः ॥ ७२ ॥ शान्तानां सुभटाः कपालिकपतद्ग्राह्यग्रहव्यापृता काणादप्रतिहारिणः क्षपणकक्षणीशवैतालिकाः ॥ सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशाङकरा नव्याः केचिदलं मुनीश्वरांगरा नीताः कथाशेषताम् ॥ ७३ ॥ इति सकलदिशामु द्वैतवातनिवृत्तौ स्वयमथ परितस्तारायमद्वैतवत्र्म । प्रतिदिनमपि कुर्वन्सर्वसंदेहमोक्ष रविरिव तिमिरौघे संप्रशान्ते महः स्वम् ॥ १७३६ ॥ दिलक्षणपमुद्रस्य वाडवाग्रिशिाखा पत्यलक्षणमेपस्य वात्या वायुसमूहो दयालक्षणाया श्रचन्द्रिकाया अमावास्यारात्रिः शान्तिलक्षणायाः कमलिन्याः पृर्णमासचन्द्रकान्तिरा स्तिक्यवृक्षस्य दावानलनृत्नज्वालानामावली सत्कथालक्षणाया हंस्याः प्रावट् । अथेति पदं सर्वत्र संबन्वनीयम् । खण्डनयोग्यताबोवकानि विशेषणानि । शार्दूलविक्रीडितं वृत्तम् ॥ ७९ ॥ हन्तेति हर्षे । समन्ततः मृगरैः प्रसरणशीलैः कान्तै: सुन्दरद्वैतामृतवर्षिभिरु त्कृत्तमुन्मूलितमाध्यात्मिकविविकाविमैतिकलक्षणं तापत्रयं यै: परगुरुव्याहारलक्षणैः पयोदैर्भिक्षुपंपादितं स्वपरैकतालक्षणफलाविषयं दुर्भिक्षं संपति शान्तम् । निबिडाः पखण्डलक्षणाश्चण्डातपाश्ध खतिाः ॥ ७२ । [ स्वेति । स्व आत्मा परं ब्रह्मानयोर्ये कर्तक्यं तदेव फलं तत्र गच्छतीति तथा तद्विषयकमिति यावत् । दुर्भिक्षवो बद्धा दयः ] ॥ ७२ ॥ शान्तानां पातञ्जलानां सुभटाः कपालिकानां पतद्भग्राहाणां ग्रहण व्यापृताः । काणादानां प्रतिहारिणः । क्षपणकराज्ञां वैतालिकाः । दिगम्बरवंशोद्भवाः सामन्ताः । केचिन्नव्याश्चार्वाकवंशाङ्करा मुनीश्वरागिरा कथाशेषतामलं नीताः ॥ ७३ ॥ उपसंहरति । इत्येवं सकलासु दिशासु द्वैतवातनिवृत्तौ सत्यामथ स्वयमयं पात दिनं संदेहनाशं कुर्वन्नद्वैतमार्ग विस्तारितवान् । यथा तिमिरौघे संप्रशान्ते सति रवि १ ग. पाषण्ड' । २ ग. घ. पाषण्ड' । ३ ग. तदाशविज' ।