पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०० श्रीमच्छकरदिग्विजयः । इति श्रीमाधवीये तत्तदाशाजयकौसुकी । संक्षेपशंकरजये सर्गः पञ्चदशोऽभवत् ॥ १५ ॥ अथ षोडशः सर्गः । अथ यदा जितवान्यतिशेस्वरोऽभिनवगुप्तमनुत्तममान्निकम् ।। स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥ १ ॥ स ततोऽभिचचार मूढबुद्धिर्यतिशार्दूलममुं प्ररुढरोषः ॥ अचिकित्स्यतमो भिषग्भिरस्मादजनिष्टास्य भगंद्राख्यरोगः ॥ २ ॥ मेहः स्वं प्रकाशं वितनोति तद्वत् । *इत्थमद्वैतमतस्थापनानन्तरं कलियुगोदूतनराणां शुद्धाद्वैतविद्यायामनधिकारमालक्ष्य परमतकालन-लक्ष्मण-दिवाकर-त्रिपुरकुमार-गिरि जाकुमारारूयाञ्शिवविष्णुसूर्यशक्तिगणपतिभक्तानाहूय तदाशयं श्रुत्वा क्रमेण स्वस्व मतस्थापनार्थं प्रेषयामास । ततो भगवन्मन्मतस्य का गतिरित्युक्तवन्तं बटुकनाथाख्यं कापालिकं शैवादिमतपूर्वपक्षतया स्वमतं स्वयेत्याज्ञापयामापेति प्राचीनादवगन्तव्यम् । मालिनी वृत्तम् ॥ १७३६॥ [परितस्तार सूत्रभाष्यादिप्रतिष्ठापनद्वारा विस्तारयामा सेति संबन्धः ] ॥ १७३६ ॥ [इति श्रीति । तदिति । भाष्यकारीयदिग्विजयकौतुकवर्णनशालीत्यर्थः । संक्षेपे त्याद्युक्तार्थम् ] ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्य दत्तवंशावतंसरामकुमारसृनुधनपतिसृरिकृतेश्रीमच्छंकरा चार्यविजयडिण्डिमे पञ्चदशः सर्गः ।। ११५ ।। [ सर्गः १६] एवं दिग्विजयकौतुकं प्रतिपाद्य शारदापीठवासं सपरिकरं निरुपयितुमारभते । अथानुतैमात्रिकमभिनवगुप्त यतिशेखरो यस्मिन्काले जितवास्तस्मिन्काले स तु परा जितो हतमना यतिविषयमपगोरणं वधोद्यमं कृतवान् । द्रुतविलम्बितं वृत्तम् ॥ १ ॥ [ हतेति । दुर्बुद्धिः ] ॥ १ ॥ स मृढबुद्धिः प्ररुढकोपोऽभिनवगुप्तस्तदनन्तरं यतिशेखरमभिचचाराऽऽभिचारिकं कर्म कृतवान् । अस्मादभिचारादस्य श्रीशंकरस्थ वै धरचिकित्स्यतमो भगंदराख्यो रोगोऽजनिष्ट । वसन्तमालिका वृत्तम् ॥ २ ॥

  • एतदादिरवगन्तव्यमित्यन्तो ग्रन्थः ‘क’ ‘ग' पुस्तफयोने दृश्यते ।

१ ग. तदाश:विज' । २ ऋ. 'त्तमं मा' । ३क. ग. 'मं कृत्या कृ' ।