पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अचिकित्स्यभगंदराख्यरोगप्रसरच्छोणितपङ्किलस्वशाट्याः । अजुगुप्सविशोधनादिरुपां परिचर्यामकृतास्य तोटकार्यः ॥ ३ ॥ भगंदरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयञ्शनैः । नोपेक्षणीयो भगवन्महामयस्त्वपीडितः शत्रुरिवर्धिमामुयात् ॥ ४ ॥ ममत्वहानाद्रवता शरीरके न गण्यते व्याधिकृताऽऽर्तिरीदृशी ॥ पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ ५॥ चिकित्सका व्याधिनिदानकोविदाः संप्रच्छनीया भगवन्नितस्ततः ॥ प्रत्यक्षवत्संप्रति सन्ति पूरुपा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६ ॥ उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुखमात्मनीश्वरैः ॥ नोपेक्षणीयं गुरुदुःखटश्वभिर्तुःखं विनेयैरिति शास्त्रनिश्चयः ॥ ७ ॥ स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपापिवृत्तयः ।। तस्माद्रवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य नो मनः ॥८॥ ६०१ अचिकित्स्येन भगंदरौख्यरोगेण प्रसरच्छोणितस्य पङ्गेन व्याप्ताया आचायेशाच्या अजगप्सपरिशोधनादिरूपां सेवां तोटकाये: कृतवान् ॥ ३ ॥ हे भगवन्महारोगस्तृपेक्षणीयो न भवति नो चेदपीडितः शत्रुथैथर्द्धिमान्नेोति तथा वृद्धिं प्रामुयात् । उपजातिवृत्तम् ॥ ४ ॥ यद्यपि शरीरके ममत्वहानाद्रवतैवंविधाऽपि रोगकृता पीडा न गण्यते तथाऽपि समीपवर्तिनः शिष्या वयं पश्यन्त एव सहमा व्यथासहा भृशार्ताः स्म: ॥ ५ ॥ तर्हि किं कर्तव्यमिति तत्राऽऽहुः । चिकित्सका इति । संप्रति जीवातुवेदे जीव नैषधवेदे वैद्यकशास्त्रे । ‘जीवातुरस्त्रियां भक्त जीविते जीवनौषधे' इति मेदिनी। गदि तार्थसिद्धिदा उक्तार्थसिद्धिदाः पुरुषाः प्रत्यक्षवत्सन्ति ॥ ६ ॥ ननु यथा मयोपेक्ष्यते तथा भवद्भिरप्युपेक्षणीयमित्याशङ्कयाऽऽहुः । शरीरकादा वनास्थया गुरावात्मनि सुखमुपेक्षमाणे सत्यपि गुरुदुःखदर्शिभिः समर्थे: शिप्यनपेक्ष णीयमिति शास्त्रनिश्चयः ।। ७ ।। किंच स्वस्थे भवत्पादसरोजद्वे वयं स्वस्था यत्र पादसरोरुहद्वये भ्रमराणां वृत्ति यषां तस्मात्तावकविग्रहो यथा स्वस्थो भवेत्तथा हे पूज्यास्माकं मनो वाञ्छति । इन्द्र वशा वृत्तम् । ८ ॥ १ क. घ. 'गुप्स्यवि' । २ घ. 'खदर्शिभि' । ३ ग. 'राख्येन रो' । ४ ग. "यो नास्ति नो ।