६०२ श्रीमच्छंकरदिग्विजयः । [ सर्गः १६] व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात्क्षपणीय एषः ॥ अभुज्यमानः पुरुषं न मुञ्चेज्जन्मान्तरेऽपीति हि शास्रवादः ॥ ९ ॥ व्याधिद्वैिधाऽसौ कथितो हि विद्रिः कमेंद्रवो धातुकृतस्तथेति ॥ आद्यक्षयः कर्मण एव लीनाचिकित्सया स्याचरमोदितस्य ॥ १० ॥ संक्षीयतां कर्मण एव संक्षयाद्वद्याधिः प्रवृत्तो न चिकित्स्यते मया ॥ पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न बिभेमि किंचन ॥ ११ ॥ सत्यं गुरो ते न शरीरलोभः स्पृहालुतां नस्तु चिराय तस्मै ॥ त्वजीवनेनैव हि जीवनं नः पाथश्वराणां जलमेव तद्धि ॥ १२ ॥ स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ॥ तस्माच्छरीरं परिरक्षणीयं त्वयाँऽपि लोकस्य हिताय विद्वन् ॥ १३ ॥ एवं शनैबोधित आचार्य उवाच । । ह यस्माद्रागा जन्मान्तरपापस्य पाकस्तस्मा देष भोगेन नौशनीयो हि यतश्चाभुज्यमान एष पुरुषं जन्मान्तरेऽपि न त्यजेदिति शास्त्रवाद: । उपजातिवृत्तम् ॥ ९ ॥ नन्वेवं तर्हि चिकित्साशास्रवैयथ्र्यमिति चेत्तत्राऽऽह । विद्वद्भिरसँौ व्याधिद्विप्रकार कथितः । कर्मोद्भवो वातादिधातुभिः कृतश्च तत्र कर्मणो लीनादेवाऽऽद्यस्य क्षयः । चरमोक्तस्य चिकित्सया क्षयः स्यात् ।। १० ।। तर्हि धातुकृत्वाचिकित्सया नाशनीय इति चेत्तत्राऽऽह । अयं प्रवृत्तो व्याधिः कर्मण एव संक्षयात्संक्षीयतां मयाँ नैव चिकित्स्यते तर्हि । रोगवशाच्छरीरं पतिष्यतीत्याशा ङ्कयाऽऽह । यदि तन्निमित्ततः शरीरं पतेत्तईवश्यं पततु तत्पतनात्किविदापि न बिभमि ।। ११ ।। एवमुक्ताः शिष्याः प्राहुहें गुरो सत्यं तव शरीरलोभो नास्ति तथाऽप्यस्माकं चिराय चिरकालं तत्स्थितये स्पृहालुताऽस्ति । हि यस्मात्तव जीवनेन नो जीवनम् । iहि यतो जलचराणां जलमेव तजीवनम् ॥ १२ ॥ भवत्वेवं तथाऽपि मया निजदेरहक्षा किमिति कर्तव्येत्याशङ्कयाऽऽहुः । स्वयमिति । || १३ || [ विद्वान्नेति भाष्यकारसंबुध्या पर्वविषयकज्ञानवति परमेश्वरावतारे सदुरा वस्माभिः पामरैः किं प्रार्थनीयमित्याशयः सूच्यते ] ॥ १३ ॥ १ ग. 'ता नोऽस्ति चि' । २ घ. "या त्रिलो* । ३ ग. क्षपणfयो । ४ क, 'घ ज' । ५ घ. तुकृ” । ६ ग. 'या वै न चि' । ७ क. घ.'कं तदर्थे चिरा' ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति