पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६ ] धनपतिसूरिकृतडिण्डिमाख्यठकासंवलितः । निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्यः ॥ नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाः शिष्याः प्रवासकुशला हरिभक्तिभाजः ॥ १४ ॥ प्रायो नृपं कविजना भिषजो वदान्यं वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते । तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥ १५ ॥ त5तात्य दशान्बहुलान्स्वकाय सिद्धयै कचिद्राजपुरे भिषग्भिः । अवाप्य संदर्शनभाषणानि समानयंस्तान्गुरुवर्यपाश्र्वम् ॥ १६ ॥ ततो द्रिजन्त्रैर्निजसेवकैस्ता न्संतोषितान्स्वाभिमतार्थदानैः । यदत्र कर्तव्यमुदीर्यतां त त्कुर्मः स्वशक्तयेति वदाञ्जगौ सः ॥ १७ ॥ उपगुदं भिषजः परिबाधते गद उदेत्य तर्नु तनुमध्यगः ॥ यदिदमस्य विधेयमिदं धुवं वैदत रोगतमस्तिमिरारयः ॥ १८ ॥ एवं शिष्याणामाग्रहादुरुवरो दिग्भ्यो वैद्यवराणां समानयनार्थं तेभ्यः शिष्येभ्योऽ नुज्ञां प्रददौ । वसन्ततिलका वृत्तम् ॥ १४ ॥ वदान्यमुदारं जुषन्ते सेवन्ते ॥ १५ ॥ गुरुवर्यसमीपं तान्भिषजः समानीतवन्तः । उपजातिवृत्तम् ॥ १६ ॥ ततो निजसेवकैः स्वाभिमतार्थदानैः संतोषितान्यदत्र कर्तव्यं तत्कथ्यतां स्वशक्त्या कुर्म इति भाषमाणांस्तान्स गुरुवरो जगौ ॥ १७ ॥ यदुवाच तदाह । हे भिषजो गुदसमीपे तनुमध्यगं। गदो रांग उदेत्य शरीरं परि वदत । यतो रोग बावते । यदिदमस्य रोगस्य विधेयमैषधं तदिदं ध्रुवमव्यभिचारि तमस्तिमिरारयः । दुतविलम्बितं वृत्तम् ॥ १८॥ [ गदत कथयत ] | १०८ ॥ ६०३ १ ग. गदत' ।