पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ श्रीमच्छकरदिग्विजयः । .. चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ॥ तदपि शिष्यगणैर्निरहिंस्यहं प्रहितवान्भवदानयनाय तान् ॥ १९ ॥ निगदिते मुनिनेति भिषग्वरा विदधिरे बहुधा गदसत्क्रिपाः ॥ न च शंशाम गदो बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥ २० ॥ अथ मुनिर्विमनस्त्वसमन्विता निदमवोचत सिद्धभिषग्वरान् । अटत गेहमगात्समयो बहु र्गदहृते भवतामित ईयुपां ॥ २१ ॥ दिनचयं गणयन्पथिलोचन: प्रियजनो निवसेद्विरहातुरः ॥ नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ २२ ॥ रुषितवान्न च वो वितरेनृपं फणितजीवितमक्षतशासनः ॥ तुरगवनृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३ ॥ नन्वेवंभूतो रोग एतावत्कालं किमित्युपेक्षितस्तत्राऽऽह । चिरमिति । तदपि तथाऽपि शिष्यगणैरहं निरहिंस्यत्याग्रहेण नियोजितत्वाद्विपितः ॥ १९ ॥ इत्येवं मुनिना कथिते सति वैद्यवरा रोगस्य सत्क्रिया बहुधा विदाविरे ॥ २० ॥ [ पटवश्चतुरा अपीत्यर्थः ] ॥ २० ॥ इतो गेहमटत गच्छत । यतो रोगहरणार्थमित आगतानां भवतां कालो महान गात् ॥ २१ ॥ अवश्यमेव भवद्भिर्गन्तव्यमित्यनुशयेनाऽऽह । विरहातुरः प्रियजनः पथिलोचनो दिनसमुदायं गणयन्निवसेदिति। संभावनायां लिङ् । किंच नरपतिर्भवतां ध्रुवं शरणं स च भवतां विदेशगमनं यदि श्रुतवान् ॥ २२ ॥ तदा कुपितः सनृपः कथितं जीवितं प्रतिज्ञातां जीविकां युष्मभ्यो न दद्यात् । [ सर्गः १६] १ घ. "पः कथित '। २ ग. स नृपः ।