पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ६०७ पाणौ शोणाम्भोजबुध्यासमन्ताद्भवाम्यदृङ्गीमण्डलीतुल्पकुल्याम् । अङ्गल्यग्रासङ्गिरुद्राक्षमालामङ्गष्ठाग्रेणासकृद्वामयन्तम् ॥ ३५ ॥ आर्यस्याथो गौडपादस्य पादावभ्यच्र्यासौ शंकरः पङ्कजाभौ ।। भक्तिश्रद्धासंभ्रमाक्रान्तचेताः प्रहस्तस्थावग्रतः प्राञ्जलिः सन् ॥ ३६ ॥ सिश्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायांऽऽसन्नयत्नैः कटाक्षः । दन्तज्योत्स्रादन्तुराश्चापि कुर्वन्नाशाः सूक्ति संदधे गौडपादः ॥ ३७ ॥ कचित्सवाँ वेत्सि गोविन्दनान्नो हृद्या विद्या संसृदुद्धारकृद्या ॥ कचित्तत्वं तत्त्वमानन्दरूपं नित्यं सचिन्निर्मलं वेत्सि वेद्यम् ॥ ३८ ॥ भक्तया युक्ताः स्वानुरक्ता विरक्ताः शान्ता दान्ताः संततं श्रद्दधानाः ।। कचित्तत्त्वज्ञानकामा विनीता श्रुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥ ३९ ॥ कचिन्नित्याः शत्रवो निर्जितास्ते कचित्प्राप्ताः सद्रुणाः शान्तिपूर्वाः ॥ कचिद्योगः साधितोऽष्टाङ्गयुक्तः कचिचित्तं साधुचित्तत्वगं ते ॥ ४० ॥ पुनश्च इस्ते शोणपप्रबुद्धया समन्तौङ्काम्यन्तीनां भ्रमरीणां या मण्डली तत्तुल्यकु लोद्भवां तत्सदृशामङ्गल्यग्रासङ्गिरुद्राक्षमालां पुनः पुनभ्रमयन्तम् ॥ ३५ ॥ अथो अनन्तरमार्यस्य गौडपादस्य पङ्कजाभौ पादावसौ शंकरोऽभ्यच्र्य भक्तिश्र द्धाभ्यां यः संभ्रमस्तेन तैर्वाक्रान्तचित्तो नम्रीभूतोऽग्रतः प्राञ्जलिः सन्नवतस्थे ॥३६॥ [ भक्तीति । भक्तिरनुरागः । श्रद्धा विश्वासः ] ॥ ३६ ॥ एनं शंकरं क्षीरवारिराशिासादृश्यायांऽऽसन्नयत्नैः प्राप्तयत्नैः कटाक्षेः सिञ्चन्दिशा श्र दन्तज्योत्स्नया दन्तुरॉव्याप्ताः कुर्वन्सुष्तिं संदधे ॥ ३७ ॥ तामेव दर्शयति । कचिदिति प्रश्रे । संसारोद्धारकारणीभूता हृदयस्य प्रिया या गोविन्दनाम्रो विद्या तां सर्वां वेत्सि जानासि । सच्छास्त्रप्रसिद्ध नित्यं सचिदमलं वेयं तत्त्वं त्वं कचिद्वेत्सि ॥ ३८ ॥ [ विद्यामद्वैतब्रह्मविद्यामित्यर्थः ] ॥ ३८ ॥ भक्त्या सेवया युक्ताः स्वस्मिंस्त्वयि स्वात्मनि वाऽनुरक्ता विषयेषु विरक्ता वशीछ तान्तरिन्द्रिया जितबाह्यकरणा निरन्तरं श्रद्धावन्तस्तत्त्वज्ञानाभिलाषा विनयं प्राप्ता शिष्यवर्याः कचित्वां गुरुं सेवन्ते ॥ ३९ ॥ नित्याः शत्रवः कामाद्या यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिसं ज्ञकैरष्टभिरडैर्युक्तः साधुचित्तत्त्वगं सम्यकैतन्यतत्त्वविषयम् ॥ ४० ॥

  • ग. 'याऽऽपन्न' । २ क. ग. 'दुत्तार' । ३ घ. "न्ताद्भमन्ती' । ४ क. 'न्ती भ्र' । ५ग

याऽऽपन्न' । ६ क. 'श्चन्द' ७ क. 'रा उन्नतरदा आशा दिशोऽपि धवलीकु' । ८ ग. घ. 'सि । तच्छा' ।