६०८ श्रीमच्छंकरदिग्विजयः । इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शशंकरः साधुशीलः ॥ भक्तयुद्रेकाद्धाष्पपर्याकुलाक्षो बभ्रन्मूर्धन्यञ्जलिं व्याजहार ॥ ४१ ॥ यद्यत्पृष्टं स्पष्टमाचार्यपादैस्तत्तत्सर्वं भो भविष्यत्यवश्यम् ॥ कारुण्याब्धेः कल्पयुष्मत्कटाक्षेईष्टस्याऽऽहुदुर्लभं किंनु जन्तोः ॥४२॥ मूको वाग्मी मन्दधीः पण्डिताटयः पापाचारः पुण्यनिष्ठेषु गण्यः । कामासक्तः कीर्तिमानिस्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन।॥ ४३ ॥ लेशं वाऽपि ज्ञातुमीष्ट पुमान्कः सीमातीतस्याद्य युष्मन्महिन्नः ॥ तुष्टाऽत्यन्तं तत्त्वविद्योपदेष्टा जात: साक्षाद्यस्य वैयासकिः सः ॥ ४४ ॥ आजानात्मज्ञानसिद्धं यमारादौदासीन्याज्जातमात्रं व्रजन्तम् ॥ प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्य: पृष्ठतोऽनुप्रपेदे ॥ ४५ ॥ यश्चाऽऽहूतो योगभाष्यप्रणेत्रा पित्रा प्राप्तः स प्रपञ्चैकभावम् ।। सर्वाहंताशीलनाद्योगभूमेः प्रत्याक्रोशं पातनोदृक्षरुपः ॥ ४६ ॥ [ सर्गः १६] बाष्पपर्याकुले परिव्याप्त अक्षिणी यस्य ॥ ४१ ॥ [ मूर्धनि मस्तके ] ॥ ४१ ॥ हे भगवन्नाचार्यपादैर्यद्यत्पृष्टं तत्तत्सर्वमवश्यं स्पष्टं भविष्यति । यस्मात्कारु ण्यसमुद्रस्य कल्पैः सदृशैर्भवत्कटाक्षेद्दष्टस्य जन्तोः किंनु दुर्लभं किमपि दुर्लभं नेत्याहुः ॥ ४२ ॥ एतदेवोपपादयति । भवद्विधानामार्याणां कटाक्षावलोकात्क्षणमात्रेण मूको वाग्मी स्यादेवमग्रेऽपि । निस्पृहाणां मध्ये कीर्तिमान् ।। ४३ ।। सीमातीतस्य भवन्महिम्रो लेशं वाऽपि ज्ञातुमद्य कः पुमान्समर्थो न कोऽपीत्यर्थः । कुत इति चेत्तत्राऽऽह । यस्य भवतः सोऽतिप्रसिद्धो व्याससूनुः शुकाचार्योऽत्यन्तं तुष्टो भूत्वा साक्षात्स्वयमेव विद्योपदेष्टा जातोऽत इत्यर्थः ॥ ४४ ॥ वैयासकिरित्युक्त्या व्यासपुत्रत्वेनैव तस्य श्रेष्ठन्यं नास्त्यपि तु स्वतोऽपीत्याशयेन तं वर्णयति । यं जन्मत एवाऽऽत्मज्ञानििसद्धमौदासीन्येनाऽऽरात्समीपाडूरं वा जात अवैदिक इतिशब्दे परे सुतोऽमुतवत्स्यादित्यर्थकेनामुतवदुपस्थित इति सूत्रेणामुत्व यश्च योगभाष्यमणेत्रा पित्राऽऽहूतः सर्वाहंभावशीलनाद्योगभूमेः पपचैकभावं प्राप्तः स वृक्षरूप: प्रत्याक्रोशां मातनोत् । तथाचोक्तम् । “यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं याससूनुमु १ घ. 'त्यभित्यादि भागवते । यो* ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति